This page has been fully proofread once and needs a second look.

नारायणीये
 
तव विरहविषण्णा ऊष्मलग्रीष्मताप-

प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ २॥
 

 
अनधिगतेति । अनधिगतमप्राप्तं निदाघक्रौर्यं ग्रीष्मकालभव ऊष्मा

यस्मिंस्तस्माद् बृन्दावनान्ताद् बहिर्देशमिदमैषीकाख्यं काननमुपयाताः तव

विरहेण विषण्णाश्च ऊष्मलो यो ग्रीष्मस्तत्तापप्रसरैर्विसरदम्भसि नष्टजल इति

बहिर्देशविशेषणम् । अथवोष्मलग्रीष्मतापप्रसरेण विसरन्त्या व्याप्तयाम्भस्यया

पिपासयाकुलाः स्तम्भं निश्चेष्टतामापुः प्रापुः ॥ २ ॥
 
२०८
 

 
तदनु सह सहायैर्दूरमन्विष्य शौरे !

गलितसरणिमुञ्जारण्यसञ्जातखेदम् ।

पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
 

त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ ३ ॥
 

 
तदन्विति । गलितसरणौ भ्रष्टमार्गे मुञ्जाख्यतृणप्रधानेऽरण्ये । त्वय्यारात्

समीपं गतवति ही ही कष्टं कष्टं दवाग्निः सर्वतो गोपैगवां परितो जजृम्भे प्रज्व-

लितोऽभूत् ॥ ३ ॥
 

 
सकलहरिति दीप्ते घोरभाङ्कारभीमे
 

शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।

अहह भुवनबन्धो ! पाहि पाहीति सर्वे
 

शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ४ ॥
 
[स्कन्धः- १०
 

 
सकलेति । सकलहरित्यष्टसु दिक्षु । विहतमार्गा बहिर्गन्तुमपारयन्तस्त्वां

शरणमुपगताः ॥ ४ ॥
 

 
अलमलमतिभीत्या सर्वतो मीलयध्वं
 

दृशमिति तव वाचा मीलिताक्षेषु तेषु ।

क्व
नु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
 

सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥ ५ ॥
 

 
अलमिति । सर्वतः सर्वे । सपदि पुनर्नयनोन्मीलनानन्तरमेव भाण्डीरदेशे
 

 
[^
]. 'पगोपी: प' ख. ग. पाठ:.
 
ठः