This page has not been fully proofread.

बशकम् – ५८]
 
गोगोपानां दावाग्निमोक्षवर्णनम् ।
 
उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ९ ॥
 
उच्चतयेति । उच्चतयोन्नततया तत्स्कन्धस्थो रामो दूरतोऽपि त्वन्मुखमा -
लोक्य भृशमतिशयेन दुष्टं दृढया स्थिरया मुष्ट्या सपदि झटिति पिष्टवान्
निगृहीतवान् ॥ ९ ॥
 
हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ १० ॥
हत्वेति । मिलतोः प्रकृतिलये सकलनिष्कलैक्यवदेकीभूतयोः ॥ १० ॥
 
आलम्बो भुवनानां मालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे ! हरे ! हरे: क्लेशान् ॥ ११ ॥
 
२०७
 
आलम्ब इति । भुवनानामालम्ब आश्रयः प्रालम्बं प्रलम्बस्येदं निधनं
निग्रहमेवमुक्तप्रकारेणारचयन् कुर्वन् कालं कालविलम्बं विहाय त्यक्त्वा हरेर्नाशय ॥
इति प्रलम्बासुरवधवर्णनं सप्तपञ्चाशं दशकं सैकम् ।
 
त्वयि विहरणलोले बालजालैः प्रलम्ब-
प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
 
किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ १ ॥
 
त्वयीति । त्वयि प्रलम्बमथनेन सबिलम्बे सति इषीकतृणभूयिष्ठत्वादै-
षीकाख्यं वनमीषांबभूवुर्जग्मुः ॥ १ ॥
 
अनधिगतनिदाघक्रौर्यवृन्दावनान्ताद्
बहिरिदमुपयाताः काननं धेनवस्ताः ।
 
१. 'लपवदे' क. पाठः,