This page has not been fully proofread.

नारायणीये
 
गोपान् विभज्य तन्वन् सङ्घ #बलभद्रकं भवत्कमपि ।
त्वलभीरुं दैत्यं त्वद्धलगतमन्वमन्यथा भगवन् ! ॥ ५ ॥
 
गोपानिति । गोपान् योगिप्रतियोगिभेदेन विभज्य बलभद्रकं सङ्घ भवत्कं
सङ्घं च तन्वन् । त्वद्बलभीरुमिति । प्रलम्बश्चिन्तितवान् अस्मिन् द्वन्द्वयुद्धे परा-
जिता जेतारं बहेयुरिति न्यायः । दिष्ट्या मिथ्यापराजितोऽहमनयोरन्यतरं वहन्
नेष्यामि । तत्र रामसङ्घस्थ: कृष्णं वहन् कदाचित् तृणावर्त इव विपन्नः स्यामिति
त्वद्वलाद् भीरुं त्वद्वलगतं त्वत्सङ्घस्थं त्वमन्वमन्यथा अनुज्ञातवान् ॥ ५ ॥
 
कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ६ ॥
 
[स्कन्धः - १०
 
कल्पितेति । कल्पितं विजेतॄणां वहनं यस्मिन् । भक्तानां मच्छिर आक्र-
म्य स्थातुमपि शक्यमिति भक्तदासतां प्रथयन् प्रकाशयन् श्रीदामानमघत्था ऊढ-
वान् ॥ ६ ॥
 
एवं बहुषु विभूमन् ! वालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ७॥
 
एवमिति । भवद्भीत्या रामम् । दूरत इति । वहन्नवरोहणस्थानावधि
शनैर्गत्वा ततो जहार क्षिप्रं नीतवान् ॥ ७ ॥
 
खद् दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद् यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥ ८ ॥
 
त्वदिति । त्वत् त्वत्सकाशाद् दूरं दूरदेशं गमयन्तं नयन्तं तं दैत्यं सशङ्कं
दृष्ट्वा हलिनि रामे विहितगरिमभर उत्पादितात्मगौरवे सति वहनाक्षमतया दैत्यः
स्वरूपमतिभीषणमागात् । यस्माद्रपाद् रूपं दृष्ट्वा स हि बलोsपि शेषमूर्तिरपि
मानुषभावेन चकित ईषत् त्रस्तोऽभूत् ॥ ८ ॥
 
१. 'ति । त्वत्स' ख. ग. पाठ:.
 
* बलभद्रनेतृकमित्यर्थः । एवं भवत्कम् । उभयत्र 'स एषां ग्रामणी : ' (५-२-७८) इति कन् ।