This page has been fully proofread once and needs a second look.

नारायणीये
 
गोपान् विभज्य तन्वन् सङ्घ #घं [^*]बलभद्रकं भवत्कमपि ।
त्व

त्वद्ब
लभीरुं दैत्यं त्वद्लगतमन्वमन्यथा भगवन् ! ॥ ५ ॥
 

 
गोपानिति । गोपान् योगिप्रतियोगिभेदेन विभज्य बलभद्रकं सङ्घं भवत्कं

सङ्घं च तन्वन् । त्वद्बलभीरुमिति । प्रलम्बश्चिन्तितवान् अस्मिन् द्वन्द्वयुद्धे परा-

जिता जेतारं बहेयुरिति न्यायः । दिष्ट्या मिथ्यापराजितोऽहमनयोरन्यतरं वहन्

नेष्यामि । तत्र रामसङ्घस्थ: कृष्णं वहन् कदाचित् तृणावर्त इव विपन्नः स्यामिति
त्वद्व

त्वद्ब
लाद् भीरुं त्वद्लगतं त्वत्सङ्घस्थं त्वमन्वमन्यथा अनुज्ञातवान् ॥ ५ ॥
 

 
कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।

श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ६ ॥
 
[स्कन्धः - १०
 

 
कल्पितेति । कल्पितं विजेतॄणां वहनं यस्मिन् । भक्तानां मच्छिर आक्र-

म्य स्थातुमपि शक्यमिति भक्तदासतां प्रथयन् प्रकाशयन् श्रीदामानमघत्था ऊढ-

वान् ॥ ६ ॥
 

 
एवं बहुषु विभूमन् ! वाबालेषु वहत्सु वाह्यमानेषु ।

रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ७॥
 

 
एवमिति । भवद्भीत्या रामम् । दूरत इति । वहन्नवरोहणस्थानावधि

शनैर्गत्वा ततो जहार क्षिप्रं नीतवान् ॥ ७ ॥
 

 
त्व
द् दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे ।

दैत्यः स्वरूपमागाद् यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥ ८ ॥
 

 
त्वदिति[^१] । त्वत् त्वत्सकाशाद् दूरं दूरदेशं गमयन्तं नयन्तं तं दैत्यं सशङ्कं

दृष्ट्वा हलिनि रामे विहितगरिमभर उत्पादितात्मगौरवे सति वहनाक्षमतया दैत्यः

स्वरूपमतिभीषणमागात् । यस्माद्रूपाद् रूपं दृष्ट्वा स हि बलोsपि शेषमूर्तिरपि

मानुषभावेन चकित ईषत् त्रस्तोऽभूत् ॥ ८ ॥
 

 
[^
]. 'ति । त्वत्स' ख. ग. पाठ:.
 

 
[^
*] बलभद्रनेतृकमित्यर्थः । एवं भवत्कम् । उभयत्र 'स एषां ग्रामणी : णीः' (५-२-७८) इति कन् ।