2023-02-16 08:52:27 by ambuda-bot
This page has not been fully proofread.
दशकम् - ५७]
प्रलम्बासुरवधवर्णनम् ।
२०५
पानक्रियाकर्मतयाप्यसौ पीतता । हे हरे ! दुरितैर्गदकारणभूतैर्दुष्कर्मफलैः सह
गदान् कार्यभूतान् हर नाशय ॥ १० ॥
इति कालियमर्दने कालियस्य भगवदनुग्रहवर्णनं भगवतो दवानलपानवर्णनं च
षट्पञ्चाशं दशकम् ।
* रामसखः कापि दिने कामद ! भगवन् ! गतो भवान् विपिनम् ।
सुनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ १॥
रामेति । रामः सखा यस्य स भवान् लसद्वेषः शोभमानालङ्कृति-
विशेषः ॥ १ ॥
सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ २ ॥
सन्दर्शयन्निति । काण्डीरैर्याष्टीकैरुद्धृतयष्टिभिरित्यर्थः । भाण्डीरकं नाम
वटमागतः ॥ २ ॥
तावत् तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्वनामा प्रलम्बवाहुं भवन्तमापेदे ॥ ३ ।॥
तावदिति । तावकनिधनस्पृहयालुस्त्वन्निग्रहेच्छावान् गोपमूर्तिर्गोपवेषः
अदयालुः निष्कृपः प्रलम्बनामा दैत्यः प्रलम्बबाहुं तादृशबाहुद्वययुक्तमापेदे प्राप ॥
जानन्नप्यविजानन्निव तेन समं निवद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ४॥
/
जानन्निति । जानन्नपि वैरोत्पादनाय निबद्धं सौहार्दं सुहद्भावो येन ।
वटस्य निकटे समीपे पटुभिर्द्वन्द्वयुद्धक्रीडाकोविदैः पशुपैः श्रीदामादिभिर्व्याबद्धमि-
तरेतरसम्बद्धं द्वन्द्वयुद्धमारब्धाः प्रारब्धवान् ॥ ४॥
* रामस्य सखा । व्याख्यानरीत्या तु रामसखेति पाठः स्यात् ।