This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
फणीति । जीवितो मरणान्निवर्तितस्त्वयि समर्पितमूर्तिः साष्टाङ्गपातमवा-
नमद् नमश्चकार ॥ ५॥
 
२०४
 
रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ ६ ॥
रमणकमिति । रमणकं रमणकाख्यं नागानां निवासभूतं द्वीपम् । फाण-
रिपुर्गरुडः सापराधेऽपि त्वयि विरोधितां न करोति ॥ ६ ॥
 
फणिवधूजनदत्तमणिव्रजज्वलितहारढुक्कूलविभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ ७ ॥
फणीति । प्रमदाश्रुविमिश्रितैः प्रमदाभिरश्रुमिंश्च प्रमदाश्रुभिर्ह श्रुभिर्वा
विमिश्रितैः स्वजनैः समगथाः सङ्गतोऽभूः ॥ ७ ॥
 
निशि पुनस्तमसा व्रजमन्दिरं त्रजितुमक्षम एव जनोत्करे ।
स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ८ ॥
 
निशीति । पुनरनन्तरं निशि रात्रौ तमसा ब्रजमन्दिरमेव व्रजितुं गन्तु-
मक्षमे तत्र कालिन्दीतट एव स्वपति सत्यरुन्धावृणोत् ॥ ८ ॥
 
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ९ ॥
धितानिति । अथ प्रबुधितान् कृशानूष्मणा प्रबुद्धानवितुं त्रातुं पपाथ
पीतवान् । इह महानलपाने किं चित्रं, यतोऽयं कृशानुस्ते मुखम् ॥ ९ ॥
 
शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ ।
इति नुतः पशुपैर्मुदितैर्विभो! हर हरे ! दुरितैः सह मे गदान् ॥१०॥
शिखिनीति । शिखिन्यग्नौ वर्णतो रूपभेदेनैव पीतता । अधुना क्रियया
 
१. 'ति । च्युतजी' क. ख, पाठः २. 'भिः प्र' क. ख. पाठ:.