This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
फणीति[^१] । जीवितो मरणान्निवर्तितस्त्वयि समर्पितमूर्तिः साष्टाङ्गपातमवा-

नमद् नमश्चकार ॥ ५॥
 
२०४
 

 
रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।

इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ ६ ॥

 
रमणकमिति । रमणकं रमणकाख्यं नागानां निवासभूतं द्वीपम् । फाणफणि-

रिपुर्गरुडः सापराधेऽपि त्वयि विरोधितां न करोति ॥ ६ ॥
 

 
फणिवधूजनदत्तमणिव्रजज्वलितहारढुक्दुकूलविभूषितः ।

तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ ७ ॥

 
फणीति । प्रमदाश्रुविमिश्रितैः प्रमदाभिरश्रुमिंभि[^२]श्च, प्रमदाश्रुभिर्ह र्षाश्रुभिर्वा

विमिश्रितैः स्वजनैः समगथाः सङ्गतोऽभूः ॥ ७ ॥
 

 
निशि पुनस्तमसा व्रजमन्दिरं त्व्रजितुमक्षम एव जनोत्करे ।

स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ८ ॥
 

 
निशीति । पुनरनन्तरं निशि रात्रौ तमसा ब्व्रजमन्दिरमेव व्रजितुं गन्तु-

मक्षमे तत्र कालिन्दीतट एव स्वपति सत्यरुन्धावृणोत् ॥ ८ ॥
 

 
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् ।

अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ९ ॥

 
प्रबु
धितानिति । अथ प्रबुधितान् कृशानूष्मणा प्रबुद्धानवितुं त्रातुं पपाथ

पीतवान् । इह महानलपाने किं चित्रं, यतोऽयं कृशानुस्ते मुखम् ॥ ९ ॥
 

 
शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ ।

इति नुतः पशुपैर्मुदितैर्विभो! हर हरे ! दुरितैः सह मे गदान् ॥१०॥

 
शिखिनीति । शिखिन्यग्नौ वर्णतो रूपभेदेनैव पीतता । अधुना क्रियया
 

 
[^
]. 'ति । च्युतजी' क. ख, पाठः
[^
]. 'भिः प्र' क. ख. पाठ:.
 
ठः