This page has not been fully proofread.

दशकम् – ५६]
 
कालियमर्दनवर्णनम् ।
 
२०३
 
रुचिरकम्पितकुण्डलमण्डल:
 
सुचिरमीश! ननर्तिथ पन्नगे ।
 
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ १ ॥
 
रुचिरेति । दैवतयौवते देवस्त्रीसमूहेऽमरताडितदुन्दुभिसुन्दरं यथा तथा
बियति दिवि विमानेषु गायति सति पन्नगे तत्फणासु सुचिरं ननर्तिथ ॥ १ ॥
 
नमति यद्यदमुष्य शिरो हरे ! परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥ २ ॥
 
नमतीति । अमुष्य फणिनो यद्यच्छिरो भगवत्पदपरिमथिततया नमति,
तत्तत् परिविहायोन्नतमुन्नतं तच्छिरः पदपकरुहा परिमथन् व्यहरथाः क्रीडि
तवान् ॥ २ ॥
 
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नतास्तदवलास्तव माधव! पादयोः ॥ ३ ॥
 
त्वदिति । त्वयावभनो मर्दितो विभुम्नः कुटिलोऽवाङ्मुखः फणागणो
यस्य । गलितेन वान्तेन शोणितेन रक्तेन शोणितमरुणीकृतं पाथो जलं येन ।
अवसीदति भग्नगात्रे सति तदबला नागपत्न्यः ॥ ३ ॥
 
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैनुनुवुरीश ! भवन्तमयन्त्रितम् ॥ ४ ॥
 
अयीति । पुरा पूर्वमेव चिराय चिरं परिश्रुतेन तवानुभावेन माहात्म्येन
विलनिहृदः श्लथैद्धृदयाः अत एव मुनिभिरण्यनवाप्यः पन्थाः सकलनिष्कल-
रूपार्थयोजनरूपो मार्गो येषु तादृशैः स्तवैरयन्त्रितमनर्गलं नुनुवुस्तुष्टुवुः ॥ ४ ॥
 
१. 'थह' क. पाठः.
 
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताच्युत ! जीवितस्त्वयि समर्पित मूर्तिरवानमत् ॥ ५ ॥