This page has been fully proofread once and needs a second look.

दशकम् – ५६]
 
कालियमर्दनवर्णनम् ।
 
२०३
 
रुचिरकम्पितकुण्डलमण्डल:
 
सुचिरमीश! ननर्तिथ पन्नगे ।
 

अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ १ ॥
 

 
रुचिरेति । दैवतयौवते देवस्त्रीसमूहेऽमरताडितदुन्दुभिसुन्दरं यथा तथा
बि

वि
यति दिवि विमानेषु गायति सति पन्नगे तत्फणासु सुचिरं ननर्तिथ ॥ १ ॥
 

 
नमति यद्यदमुष्य शिरो हरे ! परिविहाय तदुन्नतमुन्नतम् ।

परिमथन् पदपकरुहा चिरं व्यहरथाः करतालमनोहरम् ॥ २ ॥
 

 
नमतीति । अमुष्य फणिनो यद्यच्छिरो भगवत्पदपरिमथिततया नमति,

तत्तत् परिविहायोन्नतमुन्नतं तच्छिरः पदपङ्करुहा परिमथन् व्यहरथाः क्रीडि
-
तवान् ॥ २ ॥
 

 
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।

फणिपताववसीदति सन्नतास्तदलास्तव माधव! पादयोः ॥ ३ ॥
 

 
त्वदिति । त्वयावभग्नो मर्दितो विभुम्ग्नः कुटिलोऽवाङ्मुखः फणागणो

यस्य । गलितेन वान्तेन शोणितेन रक्तेन शोणितमरुणीकृतं पाथो जलं येन ।

अवसीदति भग्नगात्रे सति तदबला नागपत्न्यः ॥ ३ ॥
 

 
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।

मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश ! भवन्तमयन्त्रितम् ॥ ४ ॥
 

 
अयीति । पुरा पूर्वमेव चिराय चिरं परिश्रुतेन तवानुभावेन माहात्म्येन
विलनि

विलीन
हृदः श्लथैथ[^१]द्धृदयाः अत एव मुनिभिरण्प्यनवाप्यः पन्थाः सकलनिष्कल-

रूपार्थयोजनरूपो मार्गो येषु तादृशैः स्तवैरयन्त्रितमनर्गलं नुनुवुस्तुष्टुवुः ॥ ४ ॥
 
१. 'थह' क. पाठः.
 

 
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।

फणिपतिर्भवताच्युत ! जीवितस्त्वयि समर्पित मूर्तिरवानमत् ॥ ५ ॥
 

 
[^१]. 'थहृ' क. पाठः