2023-02-16 08:52:27 by ambuda-bot
This page has not been fully proofread.
२०२
नारायणीये
ज्वलदक्षिपरिक्षरदुग्रविपश्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तवलं समवेष्टयदस्फुटचेष्टमहो ॥ ६ ॥
[स्कन्धः - १०
ज्वलदिति । ज्वलदक्षि यथा भवति तथा परिक्षरन्नुग्रविषश्वसनस्योष्म-
भरो यस्य सः परिदृश्य मर्मसु दृष्ट्वा समवेष्टयत् तदास्फुट चेष्टमदृश्यव्यापारम् ॥
अविलोक्य भवन्तमथाकुलिते तटगामिनि वालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ७ ॥
अविलोक्येति । अनिमित्तशतं दुर्निमित्तौघम् । पशुपा नन्दादयः ॥ ७ ॥
अखिलेषु विभो ! भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।
फणिवन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ८ ॥
अखिलेष्विति । जीवभरं भवद्विरहे वोढुमशक्यान् प्राणान् जिहासुषु
विहातुमिच्छत्सु तेभ्य आत्मकुशलज्ञापनार्थी हासजुषा भवतोदगम्यतोत्थितम् ॥८॥
अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा ।
कलशिञ्जितनूपुरमञ्जुमिलत्करकङ्कणसंकुलसंकणितम् ॥ ९ ॥
अधिरुह्येति । ततः फणिराजस्य कालियस्य फणानधिरुह्य भवता ननृते
नृत्तमकारि । मृद्वी फणामणिरञ्जिततयां स्निग्धा पादरुग् यस्य । कलशिञ्जितौ
नूपुरौ यस्मिन् तत् कलशिञ्जितनू
पुरं मञ्जु मनोज्ञं च तालव्याप्टततया मिलतोः
करयोः कङ्कणसंकुलस्य संकणितं यस्मिन्निति नर्तनक्रियाविशेषणम् ॥ ९ ॥
जहषुः पशुपास्तुतुषुर्मुनयो वऋषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते ! परिपाहि स मां त्वमदान्तगदात् ॥ १० ॥
जहपुरिति । जहृपुर्हृष्टाः । तुतुषुस्तुष्टाः । अदान्तादविरतं वर्धमानाद्
गदादू व्याधेः परिपाहि ॥ १० ॥
इति कालियमर्दने कालियशिरसि भगवन्नर्तनवर्णनं
पञ्चपञ्चाशं दशकम् ।