This page has been fully proofread once and needs a second look.

२०२
 
नारायणीये
 
ज्वलदक्षिपरिक्षरदुग्रविश्वसनोष्मभरः स महाभुजगः ।

परिदश्य भवन्तमनन्तलं समवेष्टयदस्फुटचेष्टमहो ॥ ६ ॥
 
[स्कन्धः - १०
 

 
ज्वलदिति । ज्वलदक्षि यथा भवति तथा परिक्षरन्नुग्रविषश्वसनस्योष्म-

भरो यस्य सः परिदृश्य मर्मसु दृष्ट्वा समवेष्टयत् तदास्फुट चेष्टमदृश्यव्यापारम् ॥

 
अविलोक्य भवन्तमथाकुलिते तटगामिनि वाबालकधेनुगणे ।

व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ७ ॥

 
अविलोक्येति । अनिमित्तशतं दुर्निमित्तौघम् । पशुपा नन्दादयः ॥ ७ ॥

 
अखिलेषु विभो ! भवदीयदशामवलोक्य जिहासुषु जीवभरम् ।

फणिन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ८ ॥
 

 
अखिलेष्विति । जीवभरं भवद्विरहे वोढुमशक्यान् प्राणान् जिहासुषु

विहातुमिच्छत्सु तेभ्य आत्मकुशलज्ञापनार्थीथं हासजुषा भवतोदगम्यतोत्थितम् ॥८॥

 
अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा ।

कलशिञ्जितनूपुरमञ्जुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ ९ ॥
 

 
अधिरुह्येति । ततः फणिराजस्य कालियस्य फणानधिरुह्य भवता ननृते

नृत्तमकारि । मृद्वी फणामणिरञ्जिततयांया स्निग्धा पादरुग् यस्य । कलशिञ्जितौ

नूपुरौ यस्मिन् तत् कलशिञ्जितनू
पुरं मञ्जु मनोज्ञं च तालव्याप्टततया मिलतोः

करयोः कङ्कणसंकुलस्य संक्वणितं यस्मिन्निति नर्तनक्रियाविशेषणम् ॥ ९ ॥
 

 
हृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।

त्वयि नृत्यति मारुतगेहपते ! परिपाहि स मां त्वमदान्तगदात् ॥ १० ॥
 

 
हपुहृषुरिति । जहृपुषुर्हृष्टाः । तुतुषुस्तुष्टाः । अदान्तादविरतं वर्धमानाद्

गदादूद् व्याधेः परिपाहि ॥ १० ॥
 

 
इति कालियमर्दने कालियशिरसि भगवन्नर्तनवर्णनं

 
पञ्चपञ्चाशं दशकम् ।