This page has been fully proofread once and needs a second look.

दशकम् – ५५ ]
 
कालियमर्दनवर्णनम् । -
 
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ! ।

द्रुतमाथिरिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥ १ ॥
 

 
अथेति । प्रतिवारयितुं कृतधीर्निश्चितबुद्धिर्निपतरुं कदम्बवृक्षमारिथ प्रा-

प्
तवान् ॥ १ ॥
 

 
अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा ।
हृ

[^ह्र]
दवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ २ ॥
 
२०१
 

 
अधिरुह्येति । नवपल्लवतुल्यमनोज्ञरुचेत्यनेन नीपतरुर्भगवत्स्पर्शात् व्यक्त-

विषदोषः सञ्जातनवपल्लवश्च जात इत्यधःस्थितानां प्र[^१]तीतिर्घोद्योत्यते ॥ २ ॥

 
भुवनत्रयभारभृतो भवतो गुरुभारवि कम्पिविजृम्भिजला ।

परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥ ३ ॥
 

 
भुवनेति । भुवनत्रयमेव भारस्तमुदरे बिभर्तीति तथा, तादृशस्य भवतो

गुरुभारेण विकम्पि कम्पनशीलं विजृम्भि वर्धनशीलं च जलं यस्यां तथाभूता

तटिनी नदी झटिति धनुः शतप्रमाणं परिमज्जयति स्म प्लावयामास ॥ ३ ॥
 

 
अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।

उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ४ ॥
 

 
अथेति । दिक्ष्वष्टसु विदिक्ष्ववान्तरेषु (?) च परिक्षुभितं परिचलितं भ्रमितं स-

ञ्
जातावर्तमुदरमन्तर्भागो यस्य तादृशं यद् वारि तस्य निनादभरैर्हेतुभूतैरशान्तरुपाषान्धं

मनो यस्य तादृशः सन् त्वदुपान्तं त्वत्समीपमुद्गाद् उन्मज्ज्य प्राप्तवान् ॥ ४ ॥
 

 
फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् ।

पुरतः फणिनं समलोक्यथा बहुभृशृङ्गिणमञ्जनशैलमिव ॥ ५ ॥
 

 
फणेति । फणशृङ्गसहस्राद् विनिःसृमरं क्षरणशीलं ज्वलदग्निकणमत

एवोग्रं क्रूरं विषाम्बु विषद्रवं धरत इति तथा ॥ ५ ॥
 

 
१. 'प्रसिद्धियोंर्द्यो' ख. पाठः,