This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
नश्यदिति । नश्यज्जीवान् श्म्रियमाणान् विच्युतान् पतितान् विश्वान्

सर्वान् ॥ ६ ॥
 
२००
 

 
किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।

दृष्ट्वाग्रे त्वां त्वत्कृतं तद् विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ ७ ॥
 

 
किमिति । गोपसङ्घास्ततः किं किमिदमहो सर्वाङ्गेषु हर्षवर्षातिरेकः पर-

मानन्दपीयूषाप्लवो जात इति स्वप्नादिवोत्थिताः प्रागप्यघपूतनामोक्षादिषु दृष्ट-

नाना प्रभावतया इदं विषजलाद् रक्षणं त्वत्कृतं विदन्तस्त्वामालिङ्गन् आश्लेषं
 

कृतवन्तः ॥ ७ ॥
 

 
गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।

द्रागावव्रुः सर्वतो हर्षवाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ ८ ॥
 

 
गाव इति । गावश्चैवमुत्थिता द्राग् झटित्यावव्रुः परिवाय स्थिताः ॥ ८ ॥

 
रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा ।

आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ ९ ॥
 

 
रोमाञ्च इति । हे मुकुन्द ! अयं क्ष्वेलवेगो विषवेग आश्चर्य: सर्पदष्टाना-

मदृष्टपूर्वः । नोऽस्माकमन्तर्हृदि काचिदपरिच्छेद्यानन्दस्य निरतिशयसुखस्य मूर्छा

वृद्धिः भूयस्यतिनिबिडा । कथं ज्ञायते, शरीरे सर्वतः सर्वत्र रोमाञ्चोऽयं, पश्यतु

भवानिति भावः ॥ ९॥
 

 
एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्गैरस्तरोगांस्तनोषि ।

तादृम्ग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ! ॥ १० ॥
 

 
एवमिति । मुक्तजीवान् मृतानप्यस्तरोगान् लब्धजीवांस्त्यक्तशोकांचं
श्च
तनोषि ॥ १० ॥
 

 
इति कालियमर्दने विषजलेन मृतानां गोगोपानामुज्जीवनवर्णनं
 

 
चतुष्पञ्चाशं दशकम् ।