This page has not been fully proofread.

१९८
 
नारायणीये
 
[स्कन्धः - १०
 
विनिम्नति त्वय्यथ जम्बुकौघं सनामकत्वावरुणस्तदानीम् ।
भयाकुलो जम्बुकनामधेयं श्रुतिमसिद्धं व्यघितेति मन्ये ॥ ७ ॥
विनिम्नतीति । सनामकत्वात् स्वस्यापि जम्बुकनामकत्वात् ॥ ७ ॥
 
तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नृतस्त्वम् ।
सत्यं फलं जातमिहेति हासी बालः समं तालफलान्यभुङ्क्थाः ॥ ८ ॥
 
तवेति । अवतारस्य फलं धेनुकनिग्रहः । तदद्य सञ्जातमिति सुरैर्नृतस्त्वं
तव स्तुतिश्रवणात् सत्यं यथार्थवादिनो देवा इह फलं तालफलजातं जातम् ॥ ८ ॥
 
मधुद्रव स्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च दृतैर्भवनं फलौघं वहद्भिरागाः खलु वालकैस्त्वम् ॥ ९ ॥
 
मधुद्रवेति । मधुद्रवः स्रवत्येभ्य इति तथा मेदोभरभृन्ति अन्तःसारवन्ति
तालफलानि भुक्त्वा तृतैरत एव हतैरहङ्कृतैर्वन्धुभ्यो दातुं फलौवं स्कन्धोपनेयं
भवनं वहाद्भः प्रापयद्भिः ॥ ९ ॥
 
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो ! त्वं मरुत्पुराधीश्वर ! पाहि रोगात् ॥ १० ॥
हत इति । हर्षातिशयेन हतो हत इति द्विरुक्तिः ॥ १० ॥
 
इति धेनुकासुरवधवर्णनं त्रिपञ्चाशं दशकम् ।
 
अथ दशकत्रयेण कालियमर्दनरूपं भगवच्चरितं कथयन् स्तौति -
त्वत्सेवोत्कः सौभरिर्नाम पूर्व कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनवाते स्नेहवान् भोगलोले तार्क्ष्य साक्षादक्षताग्रे कदाचित् ॥ १ ॥
 
त्वदिति । त्वत्सेवायामुत्क उत्सुकः सौभरिनाम मुनिर्भोगलोले इतरेतर-
स्नेहसुखपरे । साक्षात् प्रत्यक्षत एैक्षत दृष्टवान् ॥ १ ॥