This page has not been fully proofread.

दशकम् - ५३]
 
धेनुकासुरवधवर्णनम् ।
 
उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश ! तव प्रवृत्तिः ।
गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवारभथास्तदा यत् ॥ २ ॥
 
१९७
 
उपक्रमस्येति । उपक्रमस्यारम्भस्यानुगुणा योग्या । गोत्रापरित्राणकृते भूमे
रक्षणार्थम् । तदेव Sगोत्रापरित्राणं गोरक्षणम् ॥ २ ॥
 
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ ३ ॥
कदेति । धेनुककाननं धेनुकासुरनिवासस्थानं तालवनम् ॥ ३ ॥
उत्तालतालीनिवहे त्वदुक्तया बलेन धूतेऽथ बलेन दोर्भ्याम् ।
मृदुः खरचाभ्यपतत् पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ ४ ॥
 
उत्तालेति । उत्तालेऽतिमहति तालीनिवहे तालवृक्षसमूहे बलेन शक्त्या
दोभ्य धूते चालिते पुरस्तात् प्रथमं मृदुरपरिणतः खरः परिणतः फलोत्करः
फलसमूहोऽभ्यपतत् सम्भूयापतत् । अनन्तरं धेनुकदानवोऽपि तालफलपतनरवज -
नितक्रोधेन खररूप्यभ्यपतदभ्यधावत् ॥ ४ ॥
 
समुद्यतो घैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वम् ॥ ५॥
 
समुद्यत इति । धैनुकस्य धेनुसमूहस्य पालने समुद्यत उत्साही धैनुकं
वधं धेनुकासुरवधमिति प्रकृतोऽर्थः । कथं कुर्वे न करोमि ध्रुवं निश्चितमिति मत्वा
निश्चित्येवाग्रजेन तमजीघतो घातितवानसि ॥ ५॥
 
तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् ।
जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन् ! निरास्थः ॥ ६ ॥
तदीयेति । जम्बुकत्वेनोपागतान् जम्बुकाः क्रोष्टारो भूत्वागतान् । निरास्थ
आस्थारहितः सन् निरास्थो निरसनं कृतवान् निगृहीतवान् ॥ ६ ॥
 
$ 'इनित्रकट्यचश्च' (४-२-५१) इति त्रप्रत्ययः ।