2023-02-16 08:52:26 by ambuda-bot
This page has not been fully proofread.
१९६
नारायणीये
नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य
सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
मायानिमग्नहृदयो विमुमोह याव-
देको बभूविथ तदा कबलार्धपाणिः ॥ ९ ॥
[स्कन्धः - १०
नारायणेति । सेवकं स्वमात्मानम् । मायायां निमग्नं मूढं हृदयं यस्य ।
यावद् विमुमोहाचेतनप्रायोऽभूत् तदा त्वं बहुरूपं संहृत्यैकः कबलार्धपाणिः श्रीकृ
प्णरूपेण वत्सान्वेषणपरो बभूविथ ॥ ९ ॥
3
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
नत्वा च नृतवति धातार धाम याते ।
पोतैः समं प्रमुदितैः प्रविशन्निकेतं
वातालयाधिप! विभो! परिपाहि रोगात् ॥ १० ॥
नश्यदिति । नूतवति स्तुतवति सति धाम सत्यलोकं याते गते च सति
पोतैर्वत्सपालैः समं सह निकेतं गृहं प्रविशन् ॥ १० ॥
इति ब्रह्मकृतवत्सापहारवर्णनं भगवन्मायया ब्रह्मणो मोहवर्णनं च
द्विपञ्चाशं दशकम् ।
अतीत्य बाल्यं जगतां पते ! त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ १ ॥
'णू स्तवने' तुदादिः ।
अतीत्येति । बाल्यं पञ्च वर्षाणि । पौगण्डवयो द्वितीयपञ्चकं मनोज्ञं बा-
ल्यादतिमोहनं तदुपेत्य प्राप्य वत्सानामवनं रक्षणमुपेक्ष्योत्सवेन कौतुकेन गोग-
णपालनायां प्रावर्तथाः प्रवृत्तोऽभूः ॥ १ ॥