This page has been fully proofread once and needs a second look.

१९६
 
नारायणीये
 
नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य

सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।

मायानिमग्नहृदयो विमुमोह याव-

देको बभूविथ तदा कबलार्धपाणिः ॥ ९ ॥
 
[स्कन्धः - १०
 

 
नारायणेति । सेवकं स्वमात्मानम् । मायायां निमग्नं मूढं हृदयं यस्य ।

यावद् विमुमोहाचेतनप्रायोऽभूत् तदा त्वं बहुरूपं संहृत्यैकः कबलार्धपाणिः श्रीकृ
प्
-
ष्
णरूपेण वत्सान्वेषणपरो बभूविथ ॥ ९ ॥
 
3
 

 
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
 

नत्वा च नृनूतवति धातार धाम याते ।

पोतैः समं प्रमुदितैः प्रविशन्निकेतं
 

वातालयाधिप! विभो! परिपाहि रोगात् ॥ १० ॥
 

 
नश्यदिति । [^*]नूतवति स्तुतवति सति धाम सत्यलोकं याते गते च सति

पोतैर्वत्सपालैः समं सह निकेतं गृहं प्रविशन् ॥ १० ॥
 

 
इति ब्रह्मकृतवत्सापहारवर्णनं भगवन्मायया ब्रह्मणो मोहवर्णनं च

 
द्विपञ्चाशं दशकम् ।
 

 
अतीत्य बाल्यं जगतां पते ! त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।

उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ १ ॥
 
'णू स्तवने' तुदादिः ।
 

 
अतीत्येति । बाल्यं पञ्च वर्षाणि । पौगण्डवयो द्वितीयपञ्चकं मनोज्ञं बा-

ल्यादतिमोहनं तदुपेत्य प्राप्य वत्सानामवनं रक्षणमुपेक्ष्योत्सवेन कौतुकेन गोग-

णपालनायां प्रावर्तथाः प्रवृत्तोऽभूः ॥ १ ॥
 

 
[^*] 'णू स्तवने' तुदादिः ।