This page has not been fully proofread.

दशकम् – ५२]. भगवन्मायया ब्रह्मणो मोहबर्णनम् ।
एवं प्रतिक्षणविजृम्भित हर्षभार-
निश्शेषगोपगणलालितभूरिमूर्तिम्
त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
 

 
ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ ६ ॥
 
एवमिति । प्रतिक्षणं विजृम्भितो वर्धितो हर्षभारः सन्तोषातिशयो येषां
तेषां निश्शेषाणां गोपानां गणेन लालितभूरिमूर्ति तत्तद्गोगोप्यात्मजरूपं त्वाभग्रजः
श्रीबलभद्रोऽपि (त्वङूरिमूर्तित्वं?) वत्सरान्ते संवत्सरावसाने बुबुधे । ब्रह्मात्मनोर्ब्रह्मस्व-
रूपयोरपि युवयोस्त्वं निष्कलं ब्रह्म अग्रजः सकलमिति महान् विशेषः ॥ ६ ॥
 
वर्षावधौ नवपुरातनवत्सपालान्
 
दृष्ट्वा विवेकमसृणे द्रुहिणे विमृढे ।
प्रादीदृशः प्रतिनवान् मकुटाङ्गदादि-
भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ ७ ॥
 
१९५
 
वर्षावधाविति । वर्षावधौ संवत्सरावसाने नवान् श्रीकृष्णमयान् पुरात
नान् स्वेन तिरस्कृतान् वत्सान् वत्सपालांश्च दृष्ट्वा द्रुहिणे ब्रह्मणि चिमूढे एते
सत्या अन्ये मायामया इति सम्यग्ज्ञानरहिते विवेकमसृणे विचारयितुमप्यसमर्थे
सति प्रतिनवान् मायामयान् मकुटाङ्गदादिविशिष्टान् प्रादीदृशः प्रदर्शयामा-
सिथ ॥ ७ ॥
 
प्रत्येकमेव कमलापरिलालिताङ्गान्
 
भोगीन्द्रभोगशयनान् नयनाभिरामान् ।
लीलानिमीलितदृशः सनकादियोगि-
व्यासेवितान् कमलभूर्भवतो ददर्श ॥ ८ ॥
 
प्रत्येकमिति । लीलानिमीलितदृशोऽङ्गीकृतयोगनिद्रान् भवतो विष्णून्
ददर्श ॥ ८ ॥
 
१. 'गोपगो' ख. ग. पाठः,