This page has been fully proofread once and needs a second look.

दशकम् – ५२]. भगवन्मायया ब्रह्मणो मोहबर्णनम् ।
एवं प्रतिक्षणविजृम्भित हर्षभार-

निश्शेषगोपगणलालितभूरिमूर्तिम्

त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
 

 

ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ ६ ॥
 

 
एवमिति । प्रतिक्षणं विजृम्भितो वर्धितो हर्षभारः सन्तोषातिशयो येषां

तेषां निश्शेषाणां गोपानां गणेन लालितभूरिमूर्तितिं तत्तद्गो[^१]गोप्यात्मजरूपं त्वाग्रजः

श्रीबलभद्रोऽपि (त्वङूद्भूरिमूर्तित्वं?) वत्सरान्ते संवत्सरावसाने बुबुधे । ब्रह्मात्मनोर्ब्रह्मस्व-

रूपयोरपि युवयोस्त्वं निष्कलं ब्रह्म अग्रजः सकलमिति महान् विशेषः ॥ ६ ॥
 

 
वर्षावधौ नवपुरातनवत्सपालान्
 

दृष्ट्वा विवेकमसृणे द्रुहिणे विमृमूढे ।

प्रादीदृशः प्रतिनवान् मकुटाङ्गदादि-

भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ ७ ॥
 
१९५
 

 
वर्षावधाविति । वर्षावधौ संवत्सरावसाने नवान् श्रीकृष्णमयान् पुरात
-
नान् स्वेन तिरस्कृतान् वत्सान् वत्सपालांश्च दृष्ट्वा द्रुहिणे ब्रह्मणि चिमूढे एते

सत्या अन्ये मायामया इति सम्यग्ज्ञानरहिते विवेकमसृणे विचारयितुमप्यसमर्थे

सति प्रतिनवान् मायामयान् मकुटाङ्गदादिविशिष्टान् प्रादीदृशः प्रदर्शयामा-

सिथ ॥ ७ ॥
 

 
प्रत्येकमेव कमलापरिलालिताङ्गान्
 

भोगीन्द्रभोगशयनान् नयनाभिरामान् ।

लीलानिमीलितदृशः सनकादियोगि-

व्यासेवितान् कमलभूर्भवतो ददर्श ॥ ८ ॥
 

 
प्रत्येकमिति । लीलानिमीलितदृशोऽङ्गीकृतयोगनिद्रान् भवतो विष्णून्

ददर्श ॥ ८ ॥
 

 
[^
]. 'द्गोपगो' ख. ग. पाठः,