2023-02-16 08:51:58 by ambuda-bot
This page has not been fully proofread.
1
६
नारायणीये
[स्कन्ध:- १.
―
1,
प्त्योः सौकर्ये द्योत्यते । दुर्लभ्यवस्तुन्येवं सुलभतया हस्तलब्धे सत्यपि अन्यद्
देवतान्तरं विषयादिकं वा तन्वा वाचा घिया वा भजति जन इति यत्, तद्
बत कष्टम् । इयं क्षुद्रता असारतैव, अविवेकितैवेति यावत् । स्फुटा सर्वसम्मते-
त्यर्थः । विबेकिनो विशेषमाह - एत इति । वयमित्यात्मनि बहुवचनम् । एत
इति स्वस्य भगवद्भजनसंरम्भं दर्शयति । यद्वा एते वयमिति श्रोतारोऽपि गृह्यन्ते ।
एते वयं तावत् तु तथा क्षुद्रतां न कुर्मः, किन्तु स्थिरतरेण एतद्भजनमेव श्रेय इति
निश्चितेन मनसा गुरुपवनपुराधीशं परं ब्रह्मैव आश्रयामः सेवामहे । अत्र ये
सकामास्तान् प्रति फलं दर्शयति -- विश्वेति । विश्वपीडानामाध्यात्मिकादीनां
सर्वपीडानाम्, अपह्त्यै नाशाय । अथवा विश्वपीडापहतिर्मोक्षः तस्यैव सकल-
पीडानिवृत्तिरूपत्वात् । अनेन च येऽकामनयैनं सेवन्ते, त उत्तमाधिकारिणः, ये
तु फलकामनया सेवन्ते, ते मध्यमाधिकारिणः, ये तु भेददृष्ट्यान्यद् देवतान्तरं
सकामाः सेवन्ते, तेऽधमाधिकारिण इति स्तोत्रेऽधिकारिभेदोऽपि प्रदर्शितः । विश्व-
पीडापत्यै इति प्रयोजनमुक्तम् । निश्शेषात्मानमिति भगवद्विशेषणेन विषयो
निर्दिश्यते । निश्शेषाणां चराचराणाम् आत्मा कारणम्, अथवा निश्शेषश्चराचर
प्रपञ्च आत्मा स्वरूपं यस्य स तथा सर्वात्मा, यद्वा निश्शेषाणामात्मा अन्तर्यामी,
यदिवा निश्शेषाणां ब्रह्मविष्णुगिरीशादीनाम् आत्मा स्वरूपभूतः तं सर्वदेवमय-
मित्यर्थः । अत्र क्रियारूपा साधनभक्तिरपि विषयत्वेन निर्दिश्यते
घिया वेति । तदुक्तं
तन्वा वाचा
130
"भक्तिर्हि द्विविधा प्रोक्ता साध्यसाधनभेदतः ।
साध्या ह्यह्रैतुकी प्रीतिः क्रिया स्यात् साधनात्मिका ॥
सा पुनर्नवधा प्रोक्ता पुराणे साधनात्मिका । "
इति । अत्र वाचेति कीर्तनमुच्यते, तन्वेत्यर्चनवन्दननमस्काराः, धियेति श्रवण-
स्मरणदास्यसख्यात्मनिवेदनानीति । अथवा दुर्लभ्यं वस्तु मनुष्यजन्म तस्मिन् ।
एवं ब्राह्मण्यविद्यापटुकरणत्वाद्याश्रयतया हस्तलब्ध इति कैङ्कर्यादिराहित्यं द्योतॆ-
यति । एवं सत्यपि अन्यद् अन्यशरीरेष्वपि सुलभं विषयादि जनो भजति
J
१. 'म् । साइ' क. पाठः. २. 'अवि' क. पाठ:.
व्र' क. पाठः. ५. 'त्यते' क. पाठः,
३. 'रभेदो द' क. पाठः
४. 'न्