This page has not been fully proofread.

1
 

 
नारायणीये
 
[स्कन्ध:- १.
 

 
1,
 
प्त्योः सौकर्ये द्योत्यते । दुर्लभ्यवस्तुन्येवं सुलभतया हस्तलब्धे सत्यपि अन्यद्

देवतान्तरं विषयादिकं वा तन्वा वाचा घिया वा भजति जन इति यत्, तद्

बत कष्टम् [^१]। इयं क्षुद्रता अ[^२]सारतैव, अविवेकितैवेति यावत् । स्फुटा सर्वसम्मते-

त्यर्थः । विबेवेकिनो विशेषमाह - --एत इति । वयमित्यात्मनि बहुवचनम् । एत

इति स्वस्य भगवद्भजनसंरम्भं दर्शयति । यद्वा एते वयमिति श्रोतारोऽपि गृह्यन्ते ।

एते वयं तावत् तु तथा क्षुद्रतां न कुर्मः, किन्तु स्थिरतरेण एतद्भजनमेव श्रेय इति

निश्चितेन मनसा गुरुपवनपुराधीशं परं ब्रह्मैव आश्रयामः सेवामहे । अत्र ये

सकामास्तान् प्रति फलं दर्शयति -- --विश्वेति । विश्वपीडानामाध्यात्मिकादीनां

सर्वपीडानाम्, अपह्त्यै नाशाय । अथवा विश्वपीडापहतिर्मोक्षः, तस्यैव सकल-

पीडानिवृत्तिरूपत्वात् । अनेन च येऽकामनयैनं सेवन्ते, त उत्तमाधिकारिणः, ये

तु फलकामनया सेवन्ते, ते मध्यमाधिकारिणः, ये तु भेददृष्ट्यान्यद् देवतान्तरं

सकामाः सेवन्ते, तेऽधमाधिकारिण इति स्तोत्रेऽधिकारि[^३]भेदोऽपि प्रदर्शितः । विश्व-

पीडापत्यै इति प्रयोजनमुक्तम् । निश्शेषात्मानमिति भगवद्विशेषणेन विषयो

निर्दिश्यते । निश्शेषाणां चराचराणाम् आत्मा कारणम्, अथवा निश्शेषश्चराचर
-
प्रपञ्च आत्मा स्वरूपं यस्य स तथा सर्वात्मा, यद्वा निश्शेषाणामात्मा अन्तर्यामी,

यदिवा निश्शेषाणां ब्रह्मविष्णुगिरीशादीनाम् आत्मा स्वरूपभूतः, तं सर्वदेवमय-

मित्यर्थः । अत्र क्रियारूपा साधनभक्तिरपि विषयत्वेन निर्दिश्यते
--तन्वा वाचा
घिया वेति । तदुक्तं
 
तन्वा वाचा
 
130
 
--
 
"भक्तिर्हि द्विविधा प्रोक्ता साध्यसाधनभेदतः ।

साध्या ह्यह्रैहैतुकी प्रीतिः क्रिया स्यात् साधनात्मिका ॥

सा पुनर्नवधा प्रोक्ता पुराणे साधनात्मिका । "
 

 
इति । अत्र वाचेति कीर्तनमुच्यते, तन्वेत्यर्चनवन्दननमस्काराः, धियेति श्रवण-

स्मरणदास्यसख्यात्मनिवेदनानीति । अथवा दुर्लभ्यं वस्तु मनुष्यजन्म तस्मिन्
[^४]।
एवं ब्राह्मण्यविद्यापटुकरणत्वाद्याश्रयतया हस्तलब्ध इति कैङ्कर्यादिराहित्यं द्योतॆ-
त[^५]-
यति । एवं सत्यपि अन्यद् अन्यशरीरेष्वपि सुलभं विषयादि जनो भजति
 
J
 

 
[^
]. 'म् । सा इ' क. पाठः.
[^
]. 'अवि' क. पाठ:.
 
व्

[^३]. 'रभेदो द' क. पाठः
[^४]. 'न् ब्
र' क. पाठः.
[^
]. 'त्यते' क. पाठः,
 
३. 'रभेदो द' क. पाठः
 
४. 'न्