This page has not been fully proofread.

१९४
 
नारायणीये
 
त्वामेव शिक्यगवलादिमयं दधानो
भूयस्त्वमेव पशुवत्सकबालरूपः ।
गोरूपिणी भिरपि गोपवधूमयीभि
रासादितोऽसि जननीभिरतिमहर्षात् ॥ ४ ॥
 
त्वामिति । भूयः पुनः पशुवत्सकबालरूपस्त्वं शिक्यगवलादिमयं त्वामेव
दॆधानः । गोरूपिणीभिरिति । गोरूपिणीभिर्जननीभिः पशुवत्सरूपस्त्वमतिप्रहर्षा-
दतिशयेन वात्सल्यादासादितः स्वं स्वं वत्सं मत्वा गावस्त्वां सहुङ्कारमौधसं पयो -
ऽपाययन् । तथा गोपवधूमयीभिर्जननीभिर्गोपबालकरूपस्त्वमासादितोऽसि ता
अपि स्वं स्वं सुतं मत्वा त्वामङ्कारोपणाश्लेषस्तनदानादि चक्रुरित्यर्थः ॥ ४ ॥
 
ननु गोगोपीनां बत्सवत्सपबालेप्वेवमतिप्रहर्षे को हेतुरित्याशङ्कच सर्वोऽप्या-
त्मनि स्निह्यति । अन्ये हि तदर्थं प्रियाः । आत्मा च विष्णुः कृष्णः । अतस्तद्रूपेषु
पुत्रेषु प्रेमधिरभूदिति परिहरन्नाह
--
 
जीवं हि कञ्चिदभिमानवशात् स्वकीयं
मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं
 
[स्कन्धः - १०
 
प्रीतिं ययुर्न कियती वनिताच गावः ॥ ५ ॥
 
जीवमिति । कञ्चित् स्वप्रारब्धकर्मफलभोगायोद्यतं जीवमात्मत्वेनाभिमतं
स्थूलं सूक्ष्मं वा शरीरमभिमानवशान्ममत्वारोपवशेन तनूजो मम पुत्र इति स्वकीयं
मत्वा रागभरं वहन्त्यो भवन्ति तन्मातरः । हि यस्मादित्थंभावेऽप्येतादृशो रागः,
विशेषे सति किमुच्यत इत्याह - आत्मानमिति । आत्मानमहम्प्रत्यये नेदमंशरूप
भवन्तं श्रीकृष्णमेव सूनुमवाप्य वनिता गोप्यो गावश्च न कियतीं प्रीतिं ययुः
अतिमहतीं प्रीतिमवाप्ता एवेत्यर्थः ॥ ५ ॥
 
१. 'ह्या' ख. ग. पाठ:
नमहम्प्रत्यये' क. ख. पाठ:
 
२. 'कृष्णस्तु सर्वेषामात्मा । अ' क पाठः ३. 'देवं तस्मादात्मा