This page has been fully proofread once and needs a second look.

१९४
 
नारायणीये
 
त्वामेव शिक्यगवलादिमयं दधानो

भूयस्त्वमेव पशुवत्सकबालरूपः ।

गोरूपिणी भिरपि गोपवधूमयीभि
-
रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ ४ ॥
 

 
त्वामिति । भूयः पुनः पशुवत्सकबालरूपस्त्वं शिक्यगवलादिमयं त्वामेव
दॆ

धानः । गोरूपिणीभिरिति । गोरूपिणीभिर्जननीभिः पशुवत्सरूपस्त्वमतिप्रहर्षा-

दतिशयेन वात्सल्यादासादितः स्वं स्वं वत्सं मत्वा गावस्त्वां सहुङ्कारमौधसं पयो -

ऽपाययन् । तथा गोपवधूमयीभिर्जननीभिर्गोपबालकरूपस्त्वमासादितोऽसि ता

अपि स्वं स्वं सुतं मत्वा त्वामङ्कारोपणाश्लेषस्तनदानादि चक्रुरित्यर्थः ॥ ४ ॥
 

 
ननु गोगोपीनां त्सवत्सपबालेप्ष्वेवमतिप्रहर्षे को हेतुरित्याशङ्कचक्य सर्वोऽप्या[^१]-

त्मनि स्निह्यति । अन्ये हि तदर्थं प्रियाः । आ[^२]त्मा च विष्णुः कृष्णः । अतस्तद्रूपेषु

पुत्रेषु प्रेमर्धिरभूदिति परिहरन्नाह
--
 

 
जीवं हि कञ्चिदभिमानवशात् स्वकीयं

मत्वा तनूज इति रागभरं वहन्त्यः ।

आत्मानमेव तु भवन्तमवाप्य सूनुं
 
[स्कन्धः - १०
 

प्रीतिं ययुर्न कियती वनिताश्च गावः ॥ ५ ॥
 

 
जीवमिति । कञ्चित् स्वप्रारब्धकर्मफलभोगायोद्यतं जीवमात्मत्वेनाभिमतं

स्थूलं सूक्ष्मं वा शरीरमभिमानवशान्ममत्वारोपवशेन तनूजो मम पुत्र इति स्वकीयं

मत्वा रागभरं वहन्त्यो भवन्ति तन्मातरः । हि यस्मादि[^३]त्थंभावेऽप्येतादृशो रागः,

विशेषे सति किमुच्यत इत्याह - -आत्मानमिति । आत्मानमहम्प्रत्यये नेदमंशरू
पं
भवन्तं श्रीकृष्णमेव सूनुमवाप्य वनिता गोप्यो गावश्च न कियतीं प्रीतिं ययुः

अतिमहतीं प्रीतिमवाप्ता एवेत्यर्थः ॥ ५ ॥
 

 
[^
]. 'ह्या' ख. ग. पाठ:
नमहम्प्रत्यये' क. ख. पाठ:
 
ठः
[^
]. 'कृष्णस्तु सर्वेषामात्मा । अ' क पाठः
[^
]. 'देवं तस्मादात्मा
 
नमहम्प्रत्यये' क. ख. पाठः