This page has been fully proofread once and needs a second look.

अन्येति । अन्यावतारनिकरेषु नृसिंहादिष्वप्यनिरीक्षितमदृष्टं भूमातिरेक-
मैश्वर्यातिशयम् । परीक्षितुमना इतोऽप्यैश्वर्यातिशयं द्रष्टुकामः प्रवितत्य प्रयुज्य ।
परोक्षभावमन्तर्धानम् ॥ १ ॥
 
वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
नानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकलो गतवांस्तदानीं

भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ २ ॥
 
वत्सानिति । धातुर्मतं भूमातिरेकदर्शनं तदनुवर्ती तद्दर्शनार्थीत्यर्थः ।
सामिभुक्तकबलोऽर्धभुक्तपाणिकबल: अहमेव वत्सानानेण्ष्यामीति भुञ्जानान्
बालकानाख्याय तानानेतुकाम इव, नानेतुकाम:, किन्तु धातृमतानुवर्तनार्थं गत-
वांस्त्वम् । तदानीं श्रीकृष्णे दूरस्थे सति सरोजभवो ब्रह्मा भुक्तान् भुञ्जानान्
तिरोधित तिरस्कृतवान् ॥ २ ॥
 

 
एवं वत्सकवत्सपेषु ब्रह्मणा तिरस्कृतेष्वेकाकी भगवान् सायमेतैर्विना मम
व्रजप्रवेशे सति गोगोपीनां स्वात्मजादर्शनजनितः खेदः स्याद्, एतान् ब्रह्मणोऽपट्टहृ-
त्य गमने ब्रह्मणोऽपि खेद इति विचिन्त्य तदुभयाभावाय स्वमायया स्वेनैव सर्वं
सम्पादितवानित्याह --
 
वत्सायितस्तदनु गोपगणायितस्त्वं
शिक्यादिभाण्डमुरलीगवलादिरूपः ।
प्राग्वद् विहृत्य विपिनेषु चिराय सायं
त्वं माययाथ बहुधा व्रजमाययाथ ॥ ३ ॥
 
वत्सायित इति । तदनु ब्रह्मणा वत्सवत्सपसमूहे तिरस्कृते सति त्वं
मायया बहुधा सर्वस्वरूपो भूतः वत्सायितो वत्सा इवाचरन् गोपगणायितः
शिक्यादिरूपश्च चिराय चिरं विपिनेषु प्राग्वद् विहृत्याथ सायं सन्ध्यायां

व्रजमाययाथागतवान् ॥ ३ ॥ .