This page has not been fully proofread.

दशकम् - १२]
 
ब्रह्मकृतवत्सापहारवर्णनम् ।
 
१९३
 
अन्येति । अन्यावतारनिकरेषु नृसिंहादिष्वप्यनिरीक्षितमदृष्टं भूमातिरेक-


मैश्वर्यातिशयम् । परीक्षितुमना इतोऽप्यैश्वर्यातिशयं द्रष्टुकामः प्रवितत्य प्रयुज्य ।

परोक्षभावमन्तर्धानम् ॥ १ ॥
 

 
वत्सानवीक्ष्य विवशे पशुपोत्करे ता-

नानेतुकाम इव धातृमतानुवर्ती ।

त्वं सामिभुक्तकवलो गतवांस्तदानीं
 

 
भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ २ ॥
 

 
वत्सानिति । धातुर्मतं भूमातिरेकदर्शनं तदनुवर्ती तद्दर्शनार्थीत्यर्थः ।

सामिभुक्तकबलोऽर्धभुक्तपाणिकबल: अहमेव वत्सानानेण्यामीति भुञ्जानान्

बालकानाख्याय तानानेतुकाम इव, नानेतुकाम:, किन्तु धातृमतानुवर्तनार्थं गत-

वांस्त्वम् । तदानीं श्रीकृष्णे दूरस्थे सति सरोजभवो ब्रह्मा भुक्तान् भुजानान्

तिरोधित तिरस्कृतवान् ॥ २ ॥
 

 

 

 
एवं वत्सकवत्सपेषु ब्रह्मणा तिरस्कृतेष्वेकाकी भगवान् सातैर्विनामम

व्रजप्रवेशे सति गोगोपीनां स्वात्मजादर्शनजनितः खेदः स्याद् एतान् ब्रह्मणोऽपट्ट-

त्य गमने ब्रह्मणोऽपि खेद इति विचिन्त्य तदुभयाभावाय स्वमायया स्वेनैव सर्व

सम्पादितवानित्याह -
 

 
वत्सायितस्तदनु गोपगणायितस्त्वं

शिक्यादिभाण्डमुरलीगवलादिरूपः ।

प्राग्वद् विहृत्य विपिनेषु चिराय सायं

त्वं माययाथ बहुधा व्रजमाययाथ ॥ ३ ॥
 

 
वत्सायित इति । तदनु ब्रह्मणा वत्सवत्सपसमूहे तिरस्कृते सति त्वं

मायया बहुधा सर्वस्वरूपो भूतः वत्सायितो वत्सा इवाचरन् गोपगणायितः

शिक्यादिरूपश्च चिराय चिरं विपिनेषु प्राग्वद् विहृत्याथ सायं सन्ध्यायां
 

 
वजमाययाथागतवान् ॥ ३ ॥ .