This page has been fully proofread once and needs a second look.

सविस्मयैः कमलभवादिभिः सुरै-
रनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि
स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ८ ॥
 
सविस्मयैरिति । अनुद्रुतो व्योममार्गेणानुगतः दिने तरुणदशामुपेयुषि
मध्याह्ने प्राप्ते सति भोजनोत्सवं वनाशनकौतुकम् ॥ ८ ॥
 
विषाणिकामपि मुरलीं नितम्बके
निवेशयन् कबलधरः कराम्बुजे ।
प्रहासयन् कलवचनैः कुमारकान्
बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ९ ॥
 
विषाणिकामिति । विषाणिकां शृङ्गं, मुरलीं वेणुं, नितम्बके कटिप्रदेशे
पीतपटान्तरे ॥ ९ ॥
 
सुखाशनं त्विह तव गोपमण्डले
मखाशनात् प्रियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्प्रभो !
मरुत्पुरीनिलय ! गदात् प्रपाहि माम् ॥ १० ॥
 
सुखाशनमिति । गोपमण्डले सुखाशनं देवमण्डले मखाशनाद् यज्ञभा-
गभोजनात् प्रियमिव त्रिदशवरैर्ब्रह्मादिभिरिति स्तुतः ॥ १० ॥
 
इत्यघासुरवधवर्णनम् एकपञ्चाशं दशकम् ।
 
अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्येऽथ वत्सकगणान् प्रवितस्त्य मायाम् ॥ १ ॥