2023-02-16 08:52:26 by ambuda-bot
This page has not been fully proofread.
दशकम् – ५१]
अघासुरवधवर्णनम् ।
प्रमादतः प्रविशति पन्नगोदरं
कथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो !
सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५ ॥
-
प्रमादत इति । कथत्तनौ दह्यमानशरीरे सवात्सके वत्ससमूहसहिते । त्वम
पीदमघासुरचेष्टितं विदन् जानन् ॥ ५ ॥
गलोदरे विपुलितवर्ष्मणा त्वया
महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान् विदलितकण्ठमण्डलो
विमोचयन् पशुपपशून् विनिर्ययौ ॥ ६ ॥
१९१
गलोदर इति । विपुलितवर्ष्मणा वर्धितशरीरेण त्वया निरुद्धो मारुतः
नाणवायुर्यस्य । अत एव प्राणनिरोधालुठति इतस्ततो वेष्टमाने सति विदलितं
विदारितं कण्ठमण्डलं येन स भवांस्तेन प्राणनिर्गममार्गेण पशुपान् पशूंश्च बिमो-
चयन् बहिर्निर्गमयन् स्वयमपि विनिर्ययौ ॥ ६ ॥
क्षणं दिवि त्वदुपगमार्थमास्थितं
महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा
नभःस्थले ननृतुरथो जगुः सुराः ॥ ७ ॥
क्षणमिति । त्वदुपगमार्थं त्वन्निर्गमनार्थं त्वयि प्रवेष्टुं वा क्षणं दिव्याकाश
आस्थितं महासुरप्रभवमघासुरशरीरान्निर्गतं महद् विपुलं महः सूक्ष्मशरीरस्यापि
त्यागेन परिच्छेदकाभावादत्युज्ज्वलं तेजःपुजं त्वाय ज्योतिषि ज्योतिरिव निली-
नम् । अहो द्विषन्नप्यघासुरो भवन्तमन्तः कृत्वा मृतोऽतस्तत्क्षणं तत्फलं सायु-
ज्याख्यं मोक्षं सर्वलोकसमक्षं प्राप्तवान् । अहो भक्तवात्सल्यं भवत इति
भावः ॥ ७ ॥