This page has been fully proofread once and needs a second look.

प्रमादतः प्रविकम् – ५१]
 
अघासुरवधवर्णनम् ।
 
प्रमादतः प्रविश
ति पन्नगोदरं
 

क्व
थत्तनौ पशुपकुले सवात्सके ।

विदन्निदं त्वमपि विवेशिथ प्रभो !
 

सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५ ॥
 
-
 

 
प्रमादत इति । क्वथत्तनौ दह्यमानशरीरे सवात्सके वत्ससमूहसहिते । त्वम
-
पीदमघासुरचेष्टितं विदन् जानन् ॥ ५ ॥
 

 
गलोदरे विपुलितवर्ष्मणा त्वया

महोरगे लुठति निरुद्धमारुते ।

द्रुतं भवान् विदलितकण्ठमण्डलो

विमोचयन् पशुपपशून् विनिर्ययौ ॥ ६ ॥
 
१९१
 

 
गलोदर इति । विपुलितवर्ष्मणा वर्धितशरीरेण त्वया निरुद्धो मारुतः
नाणवायुर्यस्य । अत एव

प्राणवायुर्यस्य । अत एव प्राणनिरोधाल्लुठति इतस्ततो वेष्टमाने सति विदलितं

विदारितं कण्ठमण्डलं येन स भवांस्तेन प्राणनिर्गममार्गेण पशुपान् पशूंश्च बिविमो-

चयन् बहिर्निर्गमयन् स्वयमपि विनिर्ययौ ॥ ६ ॥
 

 
क्षणं दिवि त्वदुपगमार्थमास्थितं

महासुरप्रभवमहो महो महत् ।

विनिर्गते त्वयि तु निलीनमञ्जसा
 

नभःस्थले ननृतुरथो जगुः सुराः ॥ ७ ॥
 

 
क्षणमिति । त्वदुपगमार्थं त्वन्निर्गमनार्थं त्वयि प्रवेष्टुं वा क्षणं दिव्याकाश

आस्थितं महासुरप्रभवमघासुरशरीरान्निर्गतं महद् विपुलं महः सूक्ष्मशरीरस्यापि

त्यागेन परिच्छेदकाभावादत्युज्ज्वलं तेजःपुञ्जं त्वायवयि ज्योतिषि ज्योतिरिव निली-

नम् । अहो द्विषन्नप्यघासुरो भवन्तमन्तः कृत्वा मृतोऽतस्तत्क्षणं तत्फलं सायु-

ज्याख्यं मोक्षं सर्वलोकसमक्षं प्राप्तवान् । अहो भक्तवात्सल्यं भवत इति

भावः ॥ ७ ॥