This page has not been fully proofread.

१९०
 
नारायणीये
 
[स्कन्धः - १०
 
-
 
कदाचनेति । प्रगेतरामुपस्यासन्ने सतेमनैः सव्यञ्जनैर्जेमनैरोदनैः ॥ १ ॥
 
विनिर्यतस्तव चरणाम्बुजद्वया
दुदाञ्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेवरै-
रुद्हिरे धृतभवदीक्षणोत्सवाः ॥ २ ॥
 
विनिर्यत इति । विनिर्यतो विनिर्गच्छतः । उदञ्चितं पतितं त्रिभुवनपा-
वनं जगतां पापशोधकम् । पुलकधरैरिति भक्तचनुभावः । उदूहिरे धृतवन्तः ॥२॥
 
प्रचारयत्यविरलशाद्वले तले
 
पशुन् विभो ! भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं
 
भयानकः सपदि शयानकाकृतिः ॥ ३ ॥
 
प्रचारयतीति । अविरलशाद्वले तृणभूयिष्ठे तले प्रदेशे । अघाय भवतो
भवन्नाथानां च ग्रसनरूपमघमपराधं कर्तु, परमार्थतस्तु भवभयप्रदमघं दुरितं
त्यक्तुं वर्तनीं मार्गे न्यरुणद् रुरोध । शयानकाकृतिरजगररूपः ॥ ३ ॥
 
महाचलप्रतिमतनोर्गुहानिभ-
प्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद् गताः
 
कुमारकाः किमपि विदूरगे त्वयि ॥ ४ ॥
 
महाचलेति । कुमारका विवेकरहितास्त्वयि किमपि किञ्चिद् विदूरगे दूर-
स्थे सति कानने विहरणकौतुकात् तस्य मुखोदरमास्यं गताः प्रविष्टाः । कथमेतद्,
महाचलप्रतिमतनोः पर्वतगुहानिभं प्रसारितमास्तृतं प्रथितं विस्तृतं मुखमास्यं यस्य,
अतः अजगरतनोर्महाचलभ्रान्त्या तन्मुखस्याचलगुहाभ्रान्त्या चेत्यर्थः ॥ ४ ॥
 
१. 'नां गोपगोपीनां च' ख. ग. पाठ:.