This page has been fully proofread once and needs a second look.

१९०
 
नारायणीये
 
[स्कन्धः - १०
 
-
 
कदाचनेति । प्रगेतरामुस्यासन्ने सतेमनैः सव्यञ्जनैर्जेमनैरोदनैः ॥ १ ॥
 

 
विनिर्यतस्तव चरणाम्बुजद्वया
-
दुदाञ्चितं त्रिभुवनपावनं रजः ।

महर्षयः पुलकधरैः कलेवरै-

रुद्दूहिरे धृतभवदीक्षणोत्सवाः ॥ २ ॥
 

 
विनिर्यत इति । विनिर्यतो विनिर्गच्छतः । उदञ्चितं पतितं त्रिभुवनपा-

वनं जगतां पापशोधकम् । पुलकधरैरिति भक्तचत्यनुभावः । उदूहिरे धृतवन्तः ॥२॥
 

 
प्रचारयत्यविरलशाद्वले तले
 

पशुन् विभो ! भवति समं कुमारकैः ।

अघासुरो न्यरुणदघाय वर्तनीं
 

भयानकः सपदि शयानकाकृतिः ॥ ३ ॥
 

 
प्रचारयतीति । अविरलशाद्वले तृणभूयिष्ठे तले प्रदेशे । अघाय भवतो

भवन्नाथानां[^१] च ग्रसनरूपमघमपराधं कर्तुतुं, परमार्थतस्तु भवभयप्रदमघं दुरितं

त्यक्तुं वर्तनीं मार्गेगं न्यरुणद् रुरोध । शयानकाकृतिरजगररूपः ॥ ३ ॥
 

 
महाचलप्रतिमतनोर्गुहानिभ-

प्रसारितप्रथितमुखस्य कानने ।

मुखोदरं विहरणकौतुकाद् गताः
 

कुमारकाः किमपि विदूरगे त्वयि ॥ ४ ॥
 

 
महाचलेति । कुमारका विवेकरहितास्त्वयि किमपि किञ्चिद् विदूरगे दूर-

स्थे सति कानने विहरणकौतुकात् तस्य मुखोदरमास्यं गताः प्रविष्टाः । कथमेतद्,

महाचलप्रतिमतनोः पर्वतगुहानिभं प्रसारितमास्तृतं प्रथितं विस्तृतं मुखमास्यं यस्य,

अतः अजगरतनोर्महाचलभ्रान्त्या तन्मुखस्याचलगुहाभ्रान्त्या चेत्यर्थः ॥ ४ ॥
 

 
[^
]. 'नां गोपगोपीनां च' ख. ग. पाठ:.
 
ठः