This page has been fully proofread once and needs a second look.

दशकम् - ५१]
 
अघासुरवधवर्णनम् ।
 
१८९
 
पिबतीति। गोपानां व्राते समूहे । अभिद्रुतोऽभिधावन् भवन्तं निगिलन् ग्र-

सन् अग्निप्रख्यमग्निसदृशमत एव द्रुतमुद्मन् पुनर्वमनानन्तरं त्रोट्याः चञ्चोः कोट्या-

ग्रेण दलयितुं विदारयितुमगात् । खलजनभिदाचुञ्चुर्दुष्टनिग्रहेण प्रसिद्धो भवान्

अधरोत्तरे चञ्चू प्रगृह्य तं वदार निगृहीतवान् ॥ ८ ॥
 

 
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-

मनुजमघमध्प्यग्रे गत्वा प्रतीक्षितुमेव वा ।

शमननिलयं याते तस्मिन् के सुमनोगणे
 

किरति सुमनोबृन्दं बृन्दावनाद् गृहमैयथाः ॥ ९ ॥
 

 
सपदीति । अग्रे पूर्वं गत्वाघमघासुरं प्रतीक्षितुं प्रतिपालयितुम् । तस्मिन्नघ-

पूतनाज्येष्ठे बकासुरे शमननिलयं यमसदनं याते सति सुमनसां देवानां गणे सुम-

नसां पुष्पाणां बृन्दं समूहं किरति वर्षति सत्यैयथा अगच्छः ॥ ९ ॥

 
ललितमुरलीनादं दूरान्निशम्य वधूजनै-

स्त्वरितमुपगम्यारादारूढमोद मुदीक्षितः ।

जनितजननीनन्दानन्दः समीरणमन्दिर -
 

प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥ १० ॥
 

 
ललितेति । ललितमतिसुन्दरं मुरलीनादं वेणुनादं निशम्य दूरादुदीक्षित

उन्नमितवदनं वीक्षितः पुनस्त्वरितमुपगम्य प्रस्थाय तत्समीपं गत्वारात् समी-

पेऽङ्गप्रत्यङ्गदर्शनादारूढमोदमुदीक्षितः जनित उत्पादितो जननीनन्दयोरानन्दो

येन ॥ १० ॥
 

 
इति वत्सासुरवधवर्णनं बकासुरववर्णनं च

 
पञ्चाशं दशकम् ।
 

 
कदाचन व्रजशिशुभिः समं भवान्

वनाशने विहितमतिः प्रगेतराम् ।

समावृतो बहुतरवत्समण्डलैः
 

सतेमनैर्निरगमदीश! जेमनैः ॥ १ ॥