This page has not been fully proofread.

१८८
 
नारायणीये
 
[स्कन्धः - १०
 
जबेन क्षुण्णैश्चूर्णीकृतैः क्षोणीरुहवृक्षैः क्षतं नष्टं काननं येन । परिमिलन्ति
समूहीभूतानि बृन्दानि गणा येषु ते बृन्दारका देवाः कुसुमोत्करैः सुरतरु
कुसुमनिकरैः ॥ ५ ॥
 
सुरभिलतमा मूर्धन्यूर्ध्व कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ ६ ॥
 
सुरभिलेति । सुरभिलतमातिशयेन सुरभिला सौरभ्ययुक्ता कुसुमावली
कुतस्तव मूर्धनि निपतति ऊर्ध्वमुपरिभागे वृक्षाभावात् कुत एतदिति बालैरुक्तः
पृष्टस्त्वं सहेलं सलीलमुदैरय उक्तवान्, दनुजक्षेपेण वत्सासुरशवशरीरप्रक्षेपेण
तद्वेगोत्थः कुसुमनिकरस्तरुमण्डलाद् वृक्षनिकरादूर्ध्वं गतः सोऽयं शनैः समेति
मूर्ध्नि पतति नूनं तर्कयामि ॥ ६ ॥
 
क्वचन दिवसे भूयो भूयस्तरे परुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्वकं खलु विस्मृतं
 
क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ७ ॥
 
कचनेति । भूयः पुनः क्वचन दिवसे भूयस्तरे भूयिष्ठे परुषातपे ग्रीष्मकाले
तपनतनयायां यमुनायां पाथो जलं पातुं भवदादयो गोपबालका बकं बकासुरं
प्रेक्षामासुः दृष्टवन्तः । चलितगरुतं चलितपक्षम् । इन्द्रकर्तृके क्षितिधरगरुच्छेदे
विस्मृतमच्छिन्नपक्षमपरं द्वितीयम् ॥ ७ ॥
 
पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
 
स किल निगिलन्नग्निप्रख्यं पुनद्रुतमुद्रमन् ।
दलयितुमगात् त्रोट्याः कोट्या तदा तु भवान् विभो !
खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ८॥
 
२. 'क्षणात्' ख. घ. पाठः.
 
१. 'शु' ग. पाठः.