This page has been fully proofread once and needs a second look.

१८८
 
नारायणीये
 
[स्कन्धः - १०
 
जबेन क्षुण्णैश्चूर्णीकृतैः क्षोणीरुहवृक्षैः क्षतं नष्टं काननं येन । परिमिलन्ति

समूहीभूतानि बृन्दानि गणा येषु ते बृन्दारका देवाः कुसुमोत्करैः सुरतरु

कुसुमनिकरैः ॥ ५ ॥
 

 
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली

निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।

झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्

कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ ६ ॥
 

 
सुरभिलेति । सुरभिलतमातिशयेन सुरभिला सौरभ्ययुक्ता कुसुमावली

कुतस्तव मूर्धनि निपतति ऊर्ध्वमुपरिभागे वृक्षाभावात् कुत एतदिति बालैरुक्तः

पृष्टस्त्वं सहेलं सलीलमुदैरय उक्तवान्, दनुजक्षेपेण वत्सासुरशवशरीरप्रक्षेपेण

तद्वेगोत्थः कुसुमनिकरस्तरुमण्डलाद् वृक्षनिकरादूर्ध्वं गतः सोऽयं शनैः समेति

मूर्ध्नि पतति नूनं तर्कयामि ॥ ६ ॥
 

 
क्वचन दिवसे भूयो भूयस्तरे परुषातपे

तपनतनयापाथः पातुं गता भवदादयः ।

चलितगरुतं प्रेक्षामासुर्कं खलु विस्मृतं
 

क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ७ ॥
 

 
क्व
चनेति । भूयः पुनः क्वचन दिवसे भूयस्तरे भूयिष्ठे परुषातपे ग्रीष्मकाले

तपनतनयायां यमुनायां पाथो जलं पातुं भवदादयो गोपबालका बकं बकासुरं

प्रेक्षामासुः दृष्टवन्तः । चलितगरुतं चलितपक्षम् । इन्द्रकर्तृके क्षितिधरगरुच्छेदे

विस्मृतमच्छिन्नपक्षमपरं द्वितीयम् ॥ ७ ॥
 

 
पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
 

स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्मन् ।

दलयितुमगात् त्रोट्याः कोट्या तदा तु[^१] भवान् वि[^२]भो !

खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ८॥
 
२. 'क्षणात्' ख. घ. पाठः.
 

 
[^
]. 'शु' ग. पाठः
[^२]
.
 
'क्षणात्' ख. घ. पाठः