This page has not been fully proofread.

दशकम् - ५०]
 
वत्सासुरवधवर्णनम् ।
 
१८७
 
लालितं संवाहितम् । तर्वादिकं किमिव सम्पत्सम्पूरितं न बभौ शुशुभे तरवः
पुष्पादिभिः सम्पद्भिः, वल्लर्यश्च, सलिलं पद्मादिभिः, धरणी सस्यादिभिः, गोत्रः
पर्वतो रत्नादिभिः, क्षेत्रमाकरो हेमादिभिश्च सम्पूर्ण शुशुभ इत्यर्थः ॥ २ ॥
 
विलसदुलपे कान्तारान्ते समीरणशीतले
विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
ललितमुरलीनादः सञ्चारयन् खलु वात्सकं
 
वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ ३ ॥
 
विलसदिति । विलसदुलपे शोभमानतृणविशेषयुक्ते कान्तारान्ते वनप्र-
देशे, यमुनातरङ्गसङ्गिना समीरणेन शीतले विपुले पुलिनमयतया विस्तृते यमुना
तीरे च वात्सकं वत्ससमूहम् । उदैक्षथा दृष्टवान् ॥ ३ ॥
 
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे विभ्रद् विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ४ ॥
 
रभसेति । रभसविलसत्पुच्छं वेगादितस्ततः सञ्चारितपुच्छं यथा भवति
तथा विच्छायतो गच्छतोऽस्य वत्सासुरस्य किमपि वलितस्कन्धमीषत्तिर्यकृतग्रीवं,
रन्ध्रप्रतीक्षमवसर प्रतिपालनरूपं च यदुदीक्षितमवलोकनं तद् विलोकयन् अथ मां
हन्तुकामोऽयमिति निश्चित्य तं चरणे बिश्रद् गृहीत्वोच्चकैर्वेगान्मुहुर्विभ्रामयन् विभ्र-
मणेनैव क्षतजीवितं कुहचन कस्मिंश्चिच्चिक्षेपिथ प्रक्षिप्तवान् ॥ ४ ॥
 
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परिमिलद्वृन्दा बृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद् वर्षन्ति नाम तदा हरे ! ॥ ५ ॥
 
निपततीति । जात्या जन्मतः प्रभृत्यासुरभावेन दुरात्मान दुष्टे निपतन-