This page has not been fully proofread.

१८६
 
नारायणीये
 
रत्नानां मयूखमालाभिः प्रभापटलैः शबलं विचित्रवर्णमुच्चैरुन्नतैः शृङ्गैः विरिञ्चलोकं
सत्यलोकं स्पृशतीति तथा ॥ ८ ॥
 
[स्कन्धः - १०
 
-
 
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ९ ॥
सममिति । ततो गोपकुमारकैः समं सह बनान्तं समन्ततः सर्वत्र यत्र
यत्रागाः गतवानसि ततस्ततः तत्र तत्र कलिन्दजामेकामपश्यः । तत् कथं, कुटि-
लां वक्रमार्गेण तत्र तत्रागतामतस्त्वदनुसरणात् त्वाय रागवतीमिव ॥ ९ ॥
 
तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामोऽथ कुमारकैस्त्वं समरगेहाधिप! पाहि रोगात् ॥१०॥
तथेति । पशव्ये पशुभ्यो हिते ॥ १० ॥
 
५ति वृन्दावनगमनवर्णनम् ऊनपञ्चाशं दशकम् ।
 
तरलमधुकृवृन्दे वृन्दावनेऽथ मनोहरे
पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव! श्रीमन् ! विचेरिथ धारयन्
 
गवलमुरलीवेत्रं नेत्राभिरामतनुयुतिः ॥ १ ॥
 
तरलेति । तरलमधुकृबृन्दे चलितभृङ्गसमूहे । गवलं शृङ्गं मुरलीं वेणुं वेत्रं
यष्टिं च धारयन् विचेरिथ सञ्चरणं कृतवान् ॥ १ ॥
 
विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं
ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ! ॥ २॥
 
विहितेति । बिहिता जगत्या भूम्या रक्षा येन । लक्ष्म्याः कराम्बुजाभ्यां