This page has been fully proofread once and needs a second look.

१८६
 
नारायणीये
 
रत्नानां मयूखमालाभिः प्रभापटलैः शबलं विचित्रवर्णमुच्चैरुन्नतैः शृङ्गैः विरिञ्चलोकं

सत्यलोकं स्पृशतीति तथा ॥ ८ ॥
 
[स्कन्धः - १०
 
-
 

 
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।

ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ९ ॥

 
सममिति । ततो गोपकुमारकैः समं सह नान्तं समन्ततः सर्वत्र यत्र

यत्रागाः गतवानसि ततस्ततः तत्र तत्र कलिन्दजामेकामपश्यः । तत् कथं, कुटि-

लां वक्रमार्गेण तत्र तत्रागतामतस्त्वदनुसरणात् त्वायवयि रागवतीमिव ॥ ९ ॥
 

 
तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।

चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ॥१०॥

 
तथेति । पशव्ये पशुभ्यो हिते ॥ १० ॥
 

 
ति वृबृन्दावनगमनवर्णनम् ऊनपञ्चाशं दशकम् ।
 

 
तरलमधुकृवृद्बृन्दे वृबृन्दावनेऽथ मनोहरे

पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।

हलधरसखो देव! श्रीमन् ! विचेरिथ धारयन्
 

गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥ १ ॥
 

 
तरलेति । तरलमधुकृद्बृन्दे चलितभृङ्गसमूहे । गवलं शृङ्गं मुरलीं वेणुं वेत्रं

यष्टिं च धारयन् विचेरिथ सञ्चरणं कृतवान् ॥ १ ॥
 

 
विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं

ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने ।

किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-

सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ! ॥ २॥
 

 
विहितेति । बिविहिता जगत्या भूम्या रक्षा येन । लक्ष्म्याः कराम्बुजाभ्यां