This page has not been fully proofread.

दशकम् - ४९ ]
 
वृन्दावनगमनत्रणनन् ।
 
समूहस्य खुरप्रणादः, तयोरन्तरतो मध्ये श्रयमाणानि भवद्विनोदालपितेषु कल-
भाषणेप्वमृतमयानि अक्षराणि प्रपीय श्रोत्राञ्जलिभिरापीय मार्गदैर्घ्य नाज्ञायत न
विदितम् ॥ ४ ॥
 
निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ५ ॥
निरीक्ष्येति । नन्दन्ति समृद्धानि प्रसूनानि येषु तथाविधाः कुन्दप्रमुखा
द्रुमौघा यस्मिन् । शाद्वलसान्द्रलक्ष्म्या हरिततृणनीरन्धितस्थलशोभया हरिन्म-
णीकुट्टिमवदिन्द्रनीलमणिकुट्टिमवत् पुष्टशोभं संपूर्णशोभायुक्तम् । अमोदथाः स-
न्तुष्टोऽभूः ॥ ५ ॥
 
नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ ६ ॥
नवाकेति । नवाकनिर्व्यूढेषु नूतनतया रचितेषु निवासभेदेषु विशिष्टेषु
भवनेषु । पर्यगलोकथाः परितो दृष्टवानसि ॥ ६ ॥
 
अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ७ ॥
 
अरालेति । मरालकूजाभिः कलहंसकूजितैः कृतनर्मलापामुच्चारितसरस-
बचनाम् । अरालेन कुटिलेन मार्गेणागता निर्मला आपो यस्याम् । निरन्तराणि
नीरन्ध्रितानि स्मेराणि सरोजान्येव वक्रं यस्याः । कलिन्दकन्याम् अत एवोप-
भोगक्षमाम् ॥ ७ ॥
 
मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ८॥
मयूरेति । मयूराणां केकाशतैः कलकलनिनादैर्लोभनीयं मनोहरं मणीनां
 
२. 'न्यां कालिन्दीमत' ख. पाठः.
 
१. 'अर्धचन्द्राकारतया र' ग. पाठ:.
 
+ अन्वगादिवद् अञ्चूत्तरपदं पर्यगिति । परित इति तदर्थः ।