This page has been fully proofread once and needs a second look.

दशकम् - ४९ ]
 
वृन्दावनगमनत्रणनन् ।
 
समूहस्य खुरप्रणादः, तयोरन्तरतो मध्ये श्रूयमाणानि भवद्विनोदालपितेषु कल-

भाषणेप्ष्वमृतमयानि अक्षराणि प्रपीय श्रोत्राञ्जलिभिरापीय मार्गदैर्घ्यं नाज्ञायत न

विदितम् ॥ ४ ॥
 

 
निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।

अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ५ ॥

 
निरीक्ष्येति । नन्दन्ति समृद्धानि प्रसूनानि येषु तथाविधाः कुन्दप्रमुखा

द्रुमौघा यस्मिन् । शाद्वलसान्द्रलक्ष्म्या हरिततृणनीरन्धिध्रितस्थलशोभया हरिन्म-

णीकुट्टिमवदिन्द्रनीलमणिकुट्टिमवत् पुष्टशोभं संपूर्णशोभायुक्तम् । अमोदथाः स-

न्तुष्टोऽभूः ॥ ५ ॥
 

 
नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।

वनश्रियं गोपकिशोरपालीविमिश्रितः [^+]पर्यगलोकथास्त्वम् ॥ ६ ॥

 
नवाकेति । नवाकनिर्व्यूढेषु नू[^१]तनतया रचितेषु निवासभेदेषु विशिष्टेषु

भवनेषु । पर्यगलोकथाः परितो दृष्टवानसि ॥ ६ ॥
 

 
अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् ।

निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ७ ॥
 

 
अरालेति । मरालकूजाभिः कलहंसकूजितैः कृतनर्मलापामुच्चारितसरस-

चनाम् । अरालेन कुटिलेन मार्गेणागता निर्मला आपो यस्याम् । निरन्तराणि

नीरन्ध्रितानि स्मेराणि सरोजान्येव वक्त्रं यस्याः । कलिन्दकन्या[^२]म् अत एवोप-

भोगक्षमाम् ॥ ७ ॥
 

 
मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।

विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ८॥

 
मयूरेति । मयूराणां केकाशतैः कलकलनिनादैर्लोभनीयं मनोहरं मणीनां
 

 
[^१]. 'अर्धचन्द्राकारतया र' ग. पाठः
[^
]. 'न्यां कालिन्दीमत' ख. पाठः.
 
१. 'अर्धचन्द्राकारतया र' ग. पाठ:.
 

[^
+] अन्वगादिवद् अञ्चूत्तरपदं पर्यगिति । परित इति तदर्थः ।