2023-02-16 08:51:57 by ambuda-bot
This page has not been fully proofread.
भगवन्महिमानुवर्णनम् ।
द्यातत्कल्पितशरीरादिसम्बन्धस्यासम्भावनीयत्वादिति भावः । एवञ्च मुक्तावस्थाया
अजन्यत्वान्न पुनरावृत्तिरिति भावः । एवं सान्द्रानन्दावबोधात्मकं तत्त्वमिति पद-
द्वयेन सच्चिदानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तम् । अनुपमितपदेन तस्याद्वितीयत्व-
मुक्तम् । कालदेशावधिभ्यां निर्मुक्तमिति ब्रह्मणो जीवैक्येऽपि कर्तृत्वादिजीवधर्मा-
सम्भव उक्तः । अर्थात् तटस्थलक्षणमप्युक्तम् । निगमशतसहस्रेण निर्भास्यमान-
मित्युपनिषदां प्रामाण्यं चोक्तम् । एवम्भूतं ब्रह्म गुरुपवनपुरे साक्षाद् भातीत्यतिप्र-
याससाध्यस्य ब्रह्मदर्शनस्य सकलजनसुसम्पाद्यत्वमुक्तम् । हन्त भाग्यं जनानामिति
ब्रह्मदर्शनाधिकारस्य सुकृतैकमूलत्वं चोक्तम् । दृष्टमात्रे अस्पष्टमिति ब्रह्मानन्दानु-
भवस्य श्रवणादिसाध्यत्वमुक्तम् । पुनरुरुपुरुषार्थात्मकमिति संसारदुःखोच्छेदो
ब्रह्मानन्दावाप्तिश्चेति ब्रह्मदर्शनस्य फलद्वितयं दर्शितम् । नित्यमुक्तमिति ब्रह्म प्राप्त-
स्य 'अनावृत्तिः शब्दाद्' (ब्र. सू. ४.४.२२) इति न्यायेनापुनरावृत्तिश्च दर्शिती ।
एवं ब्रह्मण उपास्यत्वोक्तेः 'ब्रह्म भाति, परं धीमही 'त्यादिपदानां तात्पर्येक्यादप्य-
नेन श्लोकेन श्रीभागवतप्रथम श्लोकार्थ एव प्रदर्शितः । अत्र च स्तोत्रे ब्रह्म प्रतिपा
द्यत्वेन विषयः, तत्प्राप्तिः प्रयोजनं, भाग्यवन्तोऽधिकारिण इत्यपि सूचितम् ॥ १ ॥
दशकम् - १]
एवं तावन्मङ्गलाचरणपरेण प्रथमश्लोकेनार्थात् प्रतिपादिते अपि विषयप्र
योजने श्रोतृजनसुखप्रतिबोधनाय मुखतः प्रतिपादयति –
एवं दुर्लभ्यवस्तुन्यपि मुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद् वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ २ ॥
"
एवमिति । अत्रौविशिष्टेन वस्तुशब्देन परमार्थसद्ब्रह्मोच्यते, मिथ्यार्थे
विशिष्टस्यैव प्रयोगदर्शनात् । तद् दुर्लभ्यं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं साध-
नचतुष्टयसम्पन्नैर्गुरूपसत्तिद्वारा श्रवणमननादिभिरेवावगन्तुं शक्यत्वात्
एवम् उक्तेन प्रकारेण सुलभतया अनायासेन । हस्तलब्ध इत्यनेन तज्ज्ञानप्रा-
तस्मिन् ।
१. 'ता । ब्रह्म भा' ख. पाठ: २. 'ते वि' क. पाठ:. ३. 'त्र वि' क. पाठ:.
दुःशब्दस्य लभ्यशब्देन समासः,