This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ९०
 
महीरुहोर्मध्यगतो वतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।

इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर ! पाहि मां गदात् ॥ १० ॥
 
१८४
 

 
महीति । महीरुहोर्वृक्षयोः । प्रभावः शक्तिः । अपरिक्षतोऽविकलाङ्गः ।

ब्रुवाणैर्नन्दादिभिरिति शेषः ॥ १० ॥
 

 
इति यमलार्जुनभञ्जनवर्णनम् अष्टचत्वारिंशं दशकम् ।
 

 
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।

अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ १ ॥
 

 
भवदिति । भवत्प्रभावाविदुरा अविदितभवत्स्वरूपैश्वर्याः केवलं मर्त्यबु-

द्धयः तरुप्रपातादिकमहेतुत्वादुत्पातगणं दुर्निमित्तौघं विशङ्कचक्य ॥ १ ॥
 

 
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।

इतः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥ २ ॥

 
तत्रेति । तत्र तेषु गोपेषूपनन्दाभिधो गोपवर्य इति जगावुवाच । तत्तु

भवत्प्रेरणयैव नूनं निश्चिनोमि ॥ २ ॥
 

 

 
बृहद्वनं तत् खलु नन्द मुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्टयानानुगता विचेलुः ॥ ३ ॥
 
बृहदिति ।
नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ३ ॥
 
बृहदिति । नन्दमुख्या
नन्दादयो गोपाः । यत्रस्थो भगवानेतावन्तं कालं

क्रीडितवान्, तत् खलु बृहद्वनं नाम देशं गौष्ठीनं भूतपूर्वगोस्थानं विधाय कृत्वा

बृहद्वनाख्यं पूर्वगोष्ठं विहायेत्यर्थः । त्वदन्वितेति । रामकृष्णान्वितयशोदारोहिणी-

निविष्टमत एव गरिष्ठं महनीयं यानं शकटमनुगता गोपा विचेलुर्जग्मुः ॥ ३ ॥
 

 
अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।

भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्ध्यम् ॥ ४ ॥

 
अन इति । अनसः शकटस्य मनोज्ञो यो ध्वनिः, यश्च धेनुपाल्याः पशु-