This page has been fully proofread once and needs a second look.

१८३
 
दशकम् - ४८]
 
यमलार्जुनभञ्जनवर्णनम् ।'
 
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुपाषा मन्थरगामिना त्वया ।

तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ ६ ॥
 

 
अतन्द्रमिति । तथाविधं यमलमिन्द्रद्रुयुगमर्जुनतरुयुग्ममतन्द्रं सोत्साहं

यथा भवति तथा उलूखलाकर्षणान्मन्थरगामिना मन्दगामिना समेयुषा प्राप्तवता

तिरायितस्य तिर्यग्गतस्योलूखलस्य रोधेन निर्धुतौ निर्भिन्नमूलौ चिराय जीणों
र्णौ
पुराणौ परिपातितौ सर्वतः प्रसृतशाखोपशाखतया पातितौ ॥ ६ ॥
 

 
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।

महात्विषा यक्षयुगेन तत्क्षणाभाजि गोविन्द ! भवानपि स्तवैः ॥ ७ ॥
 

 
अभाजीति । त्वया शाखिद्वितयं यदाभाजि भसंग्नं, तदा तद्गर्भतलाच्छा-

खिद्वितयान्तर्भागान्निरेयुषा निर्गतेन महती लिइत्विड् यस्य तेन यक्षयुगेन स्तवैः

स्तोत्रैर्भवानप्यभाजि सेवितः । अत्र भग्नं शाखिद्वितयं पुरुषरूपं गृहीत्वा प्रत्युप-

चकारेति प्रतीयते ॥ ७ ॥
 

 
इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ ।

मुनिप्रसादाद भवद घिङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ ८॥
 

 
इहेति । इह जगत्यन्येषां त्रिगुणद्विगुणमूर्तीनां ब्रह्मगिरिशादीनां भक्तः

सेवकोऽपि क्रमादधिकारक्रमेण भवन्तं शुद्धसत्त्वमूर्तितिं समेप्यति भजनाधिकारी

भविष्यति खलु निश्चितम् । कुत इत्यत आह --एताविति । उत्तमां प्रेमलक्षणां

भक्तिं वृणानौ प्रार्थयन्तौ ॥ ८ ॥
 

 
ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।

विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षदः ॥९॥
 

 
तत इति । तर्वोरुद्दारणं भञ्जनं तज्जनितेन दारुणेनारवेण प्रकम्पिसम्पा-

तिनि क्वेदं किमिदमिति ससम्भ्रममागमनशीले सति बन्धनानुशयेन विलज्जिताया

स्त्वज्जनन्याः 'किं कृतं यशोदे ! त्वया, अहो अविमृश्यकारिता भवत्या' इत्यभि
-
प्रायगर्भं मुखेक्षिणा नन्देन भवान् व्यमोक्षि पाशबन्धनान्मोचितः ॥ ९ ॥