This page has not been fully proofread.

१८२
 
नारायणीये
 
मुदा सुरौस्त्वमुदारसम्म दैरुदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ १ ॥
 
[स्कन्धः - १०
 
-
 
मुदेति । प्रागेवोद्वारसम्मदैः प्रवृद्धसन्तोषैः सुरौघैर्दाम्नोदरे बद्धत्वाद्धेतो-
मोदर इत्युदीर्य सम्बोध्य मुदाभिष्टुतः मृदु बन्धनायोग्यमुदरं यस्य स त्वं स्वैरं
यथासुखं लगन् लग्नः सन् ककुमौ वृक्षावुदैक्षथाः दृष्टवानसि ॥ १ ॥
 
कुवेरसुनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ २ ॥
 
कुवेरेति । परोऽन्यः सुतो मणिग्रीव इति प्रथां प्रसिद्धिं गतः । महेशस्य
शिवस्य सेवयाधिगतया प्राप्तया थियोन्मदौ प्रवृद्धमदौ त्वद्विमुखौ विष्णुविमुखा-
बखेलतां चेरतुः किल ॥ २ ॥
 
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्वहुयौवतावृतौ ।
विवाससौ केलिपरी स नारदो भवत्पदैकमवणो निरैक्षत ॥ ३ ॥
 
सुरेति । सुरापगायां गङ्गायां सुरापेन गायता बहुना यौवतेन युवतिसमू-
हेनावृतौ परिवारितौ भवत्पढ़ एकस्मिन् प्रवणो दत्तहृदयो निरैक्षत दृष्टवान् ॥ ३ ॥
 
भिया प्रियालोकपुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
इमाँ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ ४ ॥
 
भियेति । भिया शापभयेनोपात्तवाससं धृतस्वस्ववसनं प्रियालोकं निजस्त्री-
समूहम् । भवद्भक्तिर्विष्णुभक्तिः, उपशान्तिरीदृशकर्मणो मनसो निग्रहणं, तयोः
सिद्धये मुनिर्नारदः जगाँ शप्तवान् । ननु शान्त्या किं फलं तत्राह - शान्ति-
मिति । ऋदिना सुखं मोक्षः ॥ ४ ॥
 
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ ५ ॥
 
युवामिति । ककुभात्मतामर्जुनतरुयुग्मरूपताम् । अथ हरिं श्रीकृष्णं
निरीक्ष्य स्वं पदं कुबेरान्तिकमाप्नुतं प्राप्नुतम् ॥ ५ ॥