2023-02-16 08:52:24 by ambuda-bot
This page has not been fully proofread.
दशकम् - ४७]
कृष्णस्योल्लूखलबन्धनवर्णनम् ।
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमाय वन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् व्यगुलोनमखिलं किलैक्षत ॥ ७ ॥
१८१
बन्धुमिति । अयि भगवन् ! यं सज्जनो मोक्षार्थी बन्धुं शरणमिच्छति, तं
भवन्तं सा यशोदा पाशेन बन्धुमिच्छती रशनागुणान् बहून् नियुज्य त्वदङ्गे
निक्षिप्य द्व्यङ्गुलोनतया पुनः पुनर्निक्षिप्याखिलमपि रशनागुणं यगुलोनमै-
क्षत दृष्टवती किल ॥ ७ ॥
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुपं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे ! बन्धमेव कृपयान्वमन्यथाः ॥ ८ ॥
विस्मितेति । व्यङ्गुलोनतादर्शनेन विस्मितैरत एवोत्स्मितैः सखीजनैरी-
क्षितां स्विन्नं स्वेदार्द्रं सन्नं क्लान्तं च वपुर्यस्यास्ताम् । नित्यमुक्तं परब्रह्माख्यं वपुर्यस्य
स त्वं रशनागुणैर्बन्धं बन्धनमेवान्वमन्यथा अनुज्ञातवान् ॥ ८ ॥
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलविलान्तरे तदा सर्पिरर्पितमन्नवास्थिथाः ॥ ९ ॥
स्थीयतामिति । सा त्वां बद्ध्वा हे खल ! त्वया चिरमुलूखले स्थीयता-
मित्युक्त्वा भवनमेवागता यदा, तदा प्रागुलूखलबिलान्तरेऽर्पितं सर्पिर्नवनीतमदन्न-
वास्थिथाः स्थितवानसि ॥ ९ ॥
यद्यपाशसुगमो भवान् विभो ! संयतः किमु सपाशयानया ।
एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥ १० ॥
यदीति । अपाशानामपगतविषयश्रद्धानां सुगमः सुखेन प्राप्तुं शक्यः ।
एवं सति सपाशया पाशसहितयानया यशोदया किमु कथं संयतो बद्धः ॥ १० ॥
इति कृष्णस्योलूखलबन्धनवर्णनं सप्तचत्वारिंशं दशकम् ।