This page has been fully proofread once and needs a second look.

दशकम् - ४७]
 
कृष्णस्योल्लूखलबन्धनवर्णनम् ।
 
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमाय वमयि बन्धुमिच्छती ।

सा नियुज्य रशनागुणान् बहून् द्व्यङ्गुलोनमखिलं किलैक्षत ॥ ७ ॥
 
१८१
 

 
बन्धुमिति । अयि भगवन् ! यं सज्जनो मोक्षार्थी बन्धुं शरणमिच्छति, तं

भवन्तं सा यशोदा पाशेन बन्धुमिच्छती रशनागुणान् बहून् नियुज्य त्वदङ्गे

निक्षिप्य द्व्यङ्गुलोनतया पुनः पुनर्निक्षिप्याखिलमपि रशनागुणं द्व्यङ्गुलोनमै-

क्षत दृष्टवती किल ॥ ७ ॥
 

 
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुपंषं निरीक्ष्य ताम् ।

नित्यमुक्तवपुरप्यहो हरे ! बन्धमेव कृपयान्वमन्यथाः ॥ ८ ॥
 

 
विस्मितेति । द्व्यङ्गुलोनतादर्शनेन विस्मितैरत एवोत्स्मितैः सखीजनैरी-

क्षितां स्विन्नं स्वेदार्द्रं सन्नं क्लान्तं च वपुर्यस्यास्ताम् । नित्यमुक्तं परब्रह्माख्यं वपुर्यस्य

स त्वं रशनागुणैर्बन्धं बन्धनमेवान्वमन्यथा अनुज्ञातवान् ॥ ८ ॥
 

 
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।

प्रागुलूखलविलान्तरे तदा सर्पिरर्पितमन्नवास्थिथाः ॥ ९ ॥
 

 
स्थीयतामिति । सा त्वां बद्ध्वा हे खल ! त्वया चिरमुलूखले स्थीयता-

मित्युक्त्वा भवनमेवागता यदा, तदा प्रागुलूखलबिलान्तरेऽर्पितं सर्पिर्नवनीतमदन्न-

वास्थिथाः स्थितवानसि ॥ ९ ॥
 

 
यद्यपाशसुगमो भवान् विभो ! संयतः किमु सपाशयानया ।

एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥ १० ॥
 

 
यदीति । अपाशानामपगतविषयश्रद्धानां सुगमः सुखेन प्राप्तुं शक्यः ।

एवं सति सपाशया पाशसहितयानया यशोदया किमु कथं संयतो बद्धः ॥ १० ॥

 
इति कृष्णस्योलूखलबन्धनवर्णनं सप्तचत्वारिंशं दशकम् ।