This page has not been fully proofread.

नारायणीये
 
अर्धपीतकुचकुमले त्वयि स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश! दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥ २ ॥
 
[स्कन्धः - १०
 
अर्धेति । त्वय्यर्धपीतकुचकुड्मलेऽतृप्ते तदन्तरा मात्रा ङ्गुलीभ्यां कपोल-
तलचालनात् स्निग्धहासमधुराननाम्बुजे च सति ॥ २ ॥
 
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा
 

मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥ ३ ॥
 
सामीति । सामिपीतस्यार्धपीतस्य रसस्य स्तन्यस्य भङ्गेन विच्छेदेन सङ्गतः
प्राप्तो यः क्रोधभारस्तेन परिभूतमावेशितं चेतो यस्य स तथा ॥ ३ ॥
 
उच्चलद् ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ ४ ॥
 
उच्चलदिति । उच्चकैः पूर्णकुम्भपाटनेन सातिशयमुच्चलदुद्गतं ध्वनितं
शब्दं निशम्य समाद्रुता बेगेनागता । यशसो विसरो व्याप्तिः । सद्यः समाद्रुता दध्येव
ददर्शत्यनेन तव नवनीतमोषणार्थमन्यतो गमनं व्यज्यते ॥ ४ ॥
 
वेदमार्गपरिमार्गित रुपा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ५॥
 
वेदेति । असौ यशोदा मुनिभिर्वेदमार्गैः काण्डत्रयात्मकैः परिमार्गितं न
दृष्टं तं त्वां रुषा, न भक्त्या, परिमार्गयन्त्यन्वेषणं कुर्वन्ती सम्यक् चाक्षुषतया
ददर्श । अतः सुकृतिनी नवनीतभाजनाधः स्थितोलूखलेऽग्रपादेन स्थित्वौतवे मार्जा-
राय दीयमानं नवनीतं येन तम् ॥ ५ ॥
 
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ६ ॥
 
त्वामिति । नाट्यवद् भीतिभावनया भासुरमाननसरोजं यस्य तं त्वाम् ।
रोषेण रूषितं भ्रूभङ्गदशनच्छददंशननेत्ररक्तिमादिभिश्चिखैरङ्कितं मुखं यस्याः ।
सखीनां पुरः पुरोभागे रशनां पाशम् ॥ ६ ॥