2023-04-12 11:23:46 by Padmavati
This page has been fully proofread once and needs a second look.
दुग्धमीश! दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥ २ ॥
[स्कन्धः - १०
अर्धेति । त्वय्यर्धपीतकुचकुड्मलेऽतृप्ते तदन्तरा मात्रा
तलचालनात् स्निग्धहासमधुराननाम्बुजे च सति ॥ २ ॥
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा
।
मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥ ३ ॥
सामीति । सामिपीतस्यार्धपीतस्य रसस्य स्तन्यस्य भङ्गेन विच्छेदेन सङ्गतः
प्राप्तो यः क्रोधभारस्तेन परिभूतमावेशितं चेतो यस्य स तथा ॥ ३ ॥
उच्चलद् ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ ४ ॥
उच्चलदिति । उच्चकैः पूर्णकुम्भपाटनेन सातिशयमुच्चलदुद्गतं ध्वनितं
शब्दं निशम्य समाद्रुता
ददर्श
ददर्शेत्यनेन तव नवनीतमोषणार्थमन्यतो गमनं व्यज्यते ॥ ४ ॥
वेदमार्गपरिमार्गित रु
सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ५॥
वेदेति । असौ यशोदा मुनिभिर्वेदमार्गैः काण्डत्रयात्मकैः परिमार्गितं न
दृष्टं तं त्वां रुषा, न भक्त्या, परिमार्गयन्त्यन्वेषणं कुर्वन्ती सम्यक् चाक्षुषतया
ददर्श । अतः सुकृतिनी नवनीतभाजनाधः
राय दीयमानं नवनीतं येन तम् ॥ ५ ॥
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ६ ॥
त्वामिति । नाट्यवद् भीतिभावनया भासुरमाननसरोजं यस्य तं त्वाम् ।
रोषेण रूषितं भ्रूभङ्गदशनच्छददंशननेत्ररक्तिमादिभिश्चि
सखीनां पुरः पुरोभागे रशनां पाशम् ॥ ६ ॥