This page has not been fully proofread.

दशकम् ४७]
 
कृष्णस्योलखलबन्धनवर्णनम् ।
 
कलशेति । कलशाम्बुधिशायिनं क्षीराब्धौ शेषपर्यङ्कशायिनं, पुनस्ततः पर-
बैकुण्ठपदाधिवासिनं, स्वस्य पुरः पुरतो निजार्भकात्मकं यशोदातनयरूपं त्वां सा
कतिधा न ददर्श ॥ ८ ॥
 
ननु यशोदा स्वसुतस्यास्ये स्वसुतं ददर्शेत्युक्तं, तस्याप्यास्ये किं भुवनानि
 
विद्यन्ते न वेति शङ्कायामाह-
-
 
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ ९ ॥
 
विकसदिति । विकसन्ति भुवनानि यस्मिंस्तद् विकसद्भुवनं प्रकाशितत्र-
ह्माण्डं तस्मिन् मुखोदर आस् तथाविधं विकसङ्खुवनमाननं यस्य स भवाननया
स्फुटं स्पष्टमीक्षितः जगतां प्रपञ्चानामनवस्थामनवसानताम् । अयमर्थः -- यशोदा
स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श । तस्यापि स्वसुतस्यास्ये जगत् स्वसुतं च
ददर्श, पुनस्तस्याप्येवं, पुनश्च तस्यापि । एवं दर्पणस्थप्रतिबिम्बदर्पणानवस्थाबद्
भवान् जगतामनवस्थामातनोदिति ॥ ९ ॥
 
घृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब ! दिशेत्युपासेजन भगवन्नद्भुतवाल ! पाहि माम् ॥ १० ॥
 
धृतेति । तस्यान्तर्भागेऽनेकब्रह्माण्डस्य तद्वहिष्ठवैकुण्ठलोकस्यापि दर्शनात्
तद्वहिष्ठायाः प्रकृतेः परं सच्चिदानन्दाद्वयं ब्रह्मैवेदं योगैश्वर्येण मत्पुत्रभावेनात्मानं
प्रदर्श्य मोहयतीति क्षणं घृता तत्त्वधीः सम्यग्ज्ञानं यया तामुपासँजन्नङ्कमारुरुक्षन्
अनेकब्रह्माण्डदर्पणस्थानीयत्वादद्भुतबाल! ॥ १० ॥
 
इति विश्वरूपप्रदर्शनवर्णनं षट्चत्वारिंशं दशकम् ।
 
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥ १ ॥
 
एकदेति । दध्नो विमाथो विमथनं तत् करोतीति तथा । समुपसेदिवान्
समीपं प्राप्तवान् । अङ्कमेत्यारुह्य निवारयन् दधिविमथनमिति शेषः ॥ १ ॥
 
१. 'स्ये स्वात्मानं स्वसुतं च द ' ग. पाठः. २. 'व्र' क. पाठः ३. 'न' क. ख. पाठ;.