2023-04-12 11:13:44 by Padmavati
This page has been fully proofread once and needs a second look.
कृष्णस्योलखलबन्धनवर्णनम् ।
बै
वैकुण्ठपदाधिवासिनं, स्वस्य पुरः पुरतो निजार्भकात्मकं यशोदातनयरूपं त्वां सा
कतिधा न ददर्श ॥ ८ ॥
ननु यशोदा स्वसुतस्यास्ये[^१] स्वसुतं ददर्शेत्युक्तं, तस्याप्यास्ये किं भुवनानि
विद्यन्ते न वेति शङ्कायामाह-
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ ९ ॥
विकसदिति । विकसन्ति भुवनानि यस्मिंस्तद् विकसद्भुवनं प्रकाशित
ह्माण्डं तस्मिन् मुखोदर आस्ये तथाविधं विकस
स्फुटं स्पष्टमीक्षितः जगतां प्रपञ्चानामनवस्थामनवसानताम् । अयमर्थः
स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श । तस्यापि स्वसुतस्यास्ये जगत् स्वसुतं च
ददर्श, पुनस्तस्याप्येवं, पुनश्च तस्यापि । एवं दर्पणस्थप्रतिबिम्बदर्पणानवस्था
भवान् जगतामनवस्थामातनोदिति ॥ ९ ॥
घृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब ! दिशेत्युपा
धृतेति । तस्यान्तर्भागेऽनेकब्रह्माण्डस्य तद्
तद्
प्रदर्श्य मोहयतीति क्षणं
अनेकब्रह्माण्डदर्पणस्थानीयत्वादद्भुतबाल! ॥ १० ॥
इति विश्वरूपप्रदर्शनवर्णनं षट्चत्वारिंशं दशकम् ।
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥ १ ॥
एकदेति । दध्नो विमाथो विमथनं तत् करोतीति तथा । समुपसेदिवान्
समीपं प्राप्तवान् । अङ्कमेत्यारुह्य निवारयन् दधिविमथनमिति शेषः ॥ १ ॥
[^१]. 'स्ये स्वात्मानं स्वसुतं च द ' ग. पाठः
[^२]. 'व्र' क. पाठः
[^३]. '