This page has not been fully proofread.

१७८
 
नारायणीये
 
[स्कन्धः - १०
 
पुनरिति । पुनरपि किञ्चिद्वयोतिक्रमणे सति त्वयि बालकैः समं सह ॥ २ ॥
अयि ते मलयावधौ विभो ! क्षितितोयादिसमस्तभक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ३ ॥
 
अयति । प्रलय एवावधिः प्रलयावधिः । प्रत्यहमिव प्रतिप्रलयं क्षित्यादिस-
मस्तं प्रपञ्चं भक्षयितुं शीलमस्येति तथा तस्य ते मृदुपाशनतः क्षितिलवमात्रभक्षणेन
रुजा रोगो भवेत् ॥ ३ ॥
 
अयि दुर्विनयात्मक ! त्वया किमु मृत्सा वत वत्स ! भक्षिता ।
इति मातृगिरं चिरं विभो ! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४ ॥
अयीति । वितथामयथार्थी प्रतिजज्ञिपे प्रतिज्ञातवानसि ॥ ४ ॥
अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् ।
इति मातृविभत्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ५ ॥
 
अयीति । सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते मृद्भोजने तवैकस्य
बिमतिबिंबादोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभसि-
तोऽधिक्षिप्तः विकसत्पद्मनिभं यथा भवति तथा व्यदारयः ॥ ५ ॥
 
अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ६ ॥
अयीति । बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ ॥
 
कुहचिद् वनमम्बुधिः कचित् कचिद्रं कुहचिद् रसातलम् ।
मनुजा दनुजाः कचित् सुरा ददृशे किं न तदा त्वदानने ॥ ७ ॥
 
कुहचिदिति । तवान्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥
 

 
कलशाम्बुधिशायिनं पुनः परबैकुण्ठपदाधिवासिनम् ।
स्वपुरथ निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ८ ॥
१. 'पि' क.ग पाठ:. २. 'द' ख. पाठ: