This page has been fully proofread once and needs a second look.

१७८
 
नारायणीये
 
[स्कन्धः - १०
 
पुनरिति । पुनरपि किञ्चिद्वयोतिक्रमणे सति त्वयि बालकैः समं सह ॥ २ ॥

 
अयि ते प्रलयावधौ विभो ! क्षितितोयादिसमस्तभक्षिणः ।

मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ३ ॥
 

 
यीति । प्रलय एवावधिः प्रलयावधिः । प्रत्यहमिव प्रतिप्रलयं क्षित्यादिस-

मस्तं प्रपञ्चं भक्षयितुं शीलमस्येति तथा तस्य ते मृदुपाशनतः क्षितिलवमात्रभक्षणेन

रुजा रोगो भवेत् ॥ ३ ॥
 

 
अयि दुर्विनयात्मक ! त्वया किमु मृत्सा त वत्स ! भक्षिता ।

इति मातृगिरं चिरं विभो ! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४ ॥

 
अयीति । वितथामयथार्थीथां प्रतिजज्ञिपेषे प्रतिज्ञातवानसि ॥ ४ ॥

 
अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् ।

इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ५ ॥
 

 
अयीति । सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते मृद्भोजने तवैकस्य
बिमतिबिंबा

विमतिर्विवा
दोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभर्त्सि-

तोऽधिक्षिप्तः विकसत्पद्मनिभं यथा भवति तथा व्यदारयः ॥ ५ ॥
 

 
अयि[^१] मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।

पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ६ ॥

 
अयीति । बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ ॥
 

 
कुहचिद् वनमम्बुधिः कचित् कचिद्क्वचित् क्वचिदभ्रं कुहचिद् रसातलम् ।

मनुजा दनुजाः क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥ ७ ॥
 

 
कुहचिदिति । तवा[^२]न्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥
 

 

 
कलशाम्बुधिशायिनं पुनः परबैवैकुण्ठपदाधिवासिनम् ।

स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ८ ॥

 
[^
]. 'पि' क.ग पाठ:. ठः
[^
]. 'द' ख. पाठ:
 
ठः